________________
टी० - उक्त आस्रव इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टे
अध्याय
सम्बन्धः
अष्टमोऽध्यायः ८
--
बन्धस्य सामान्य हेतुपश्चकम्
**
टी० – उक्तः - लक्षणविधानाभ्यामभिहितः " कायवाङ्मनः कर्म योगः " " स आस्रवः (अ० ६, सू० १-२ ) इत्यारभ्य सामान्यतो विशेषतश्च । सम्प्रति प्रस्तावायातसम्बन्धं बन्धं वक्ष्याम इति एतदुक्तं भवति - जीवाजीवास्रवबन्धसंवर सूत्रक्रमेणास्रवो व्याख्यातः । तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते । तदेतदनेन प्रतिपादयति - तत्प्रसिद्ध्यर्थमिदमुच्यत इति । तस्य बंन्धस्य प्रसिद्धिः - शब्दार्थनिरूपणं तत्प्रसिद्ध्यर्थं - तत्प्रसिद्धये तन्निरूपणार्थमुच्यते । इदमिति वक्ष्यमाणमिथ्यादर्शनादिपञ्चकम् || नैनु बन्धं प्रस्तुत्य तद्धेतुकथनमसम्बद्धमिव लक्ष्यते १, नासम्बद्धम् ; यतो नाकारणा कार्यनिष्पत्तिः । बीजाद्धि प्रसवोऽङ्कुरस्य प्रथमतरं च कारणमुपाददते कार्यानिः, बन्धश्व कार्य कारणं तस्य मिथ्यादर्शनादिपञ्चकं प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याह
भा०—उक्त आस्रवः । बन्धं वक्ष्यामः । तत्प्रसिद्ध्यर्थमिदमुच्यते
Jain Education International
सूत्रम् - मिथ्यादर्शना-ऽविरति प्रमाद- कषाययोगा बन्धहेतवः ॥ ८१ ॥
दी० - मिथ्यादर्शनादयो योगान्ताः पञ्च कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । मिथ्यादर्शनं तत्त्वार्थाश्रद्धानलक्षणम् । अविरतिः - अनिवृत्तिः - पापस्थानेभ्यो विरतिपरिणामाभावः । प्रमादस्त्विन्द्रियविकथाविकटनिद्रालक्षणः । कषायाः क्रोध- मान-माया - लोभाः अनन्तानुबन्धिप्रभृतयः | योगा मनोवाक्कायव्यापारस्वभावाः । बन्धः कर्मवर्गणायोग्यस्कधानामात्मप्रदेशानां चान्योन्यानुगतिलक्षणः क्षीरोदकादेखि सम्पर्को बन्धः । हेतुः निमित्तं कारणम् । बन्धस्य हेतवो बन्धहेतवः पञ्च मिथ्यादर्शनादयः । सामान्यहेतवश्चैतेऽवगन्तव्याः सर्वकर्मबन्धस्य । विशेषहेतवस्तु ज्ञानावरणादेर्व्याख्याताः षष्ठे “ तत्प्रदोषनिह्नव० "
१-२ 'उक्ता आस्रवाः' इति क-ग-पाठः । ३ ' सम्बन्धस्य ' इति ङ-पाठः । ४' तत्प्रसिद्धार्थं तत्प्रसिद्धयर्थे इति ङ-पाठः । ५ ' तदनुबन्ध' इति ङ-पाठः । ६' सम्बन्धं ' इति ङ-पाठः । ७ 'कार्याविनाबन्धः ' इति ङ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org