________________
तत्वार्थाधिगमसूत्रम्
[अध्यायः ७. रोपमस्वरूपवानविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्य सारासारादयो वाच्याः॥
भा०-दातृविशेषः प्रतिग्रहीतर्यनसूया, त्यागेविषादः, अपरिभाविता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसन्धिता, दृष्टफलानपेक्षिता, निरूपधत्वम् , अनिदानत्वमिति ॥
टी-दातृविशेष इति । दातुर्विशेषः-अतिशयः स्वपरिणामजनितः । प्रतिग्रहीता गुणसम्पनो वक्ष्यमाणः तत्रानसूया क्षमावत्त्वम् । प्रसन्नचित्तता पुण्यवानहं यस्य मे गेहमनुविशन्ति तपस्विनः।न त्वक्षमा कार्या, प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीभिर्वयमिति । त्यागेन विषीदति । दत्तेऽनादावविषादः । विषादो विषण्णता श्रद्धाहासोऽतिदत्तं मयेति । गृहेऽपि चिन्तनीयमेव प्रयोजनमिति, दत्त्वैवं चिन्तनीयमिदमेवैकं मम स्वं यद वतिनामुपयुक्तमिति। तथा परिभाविता परिभवति तच्छीलश्च परिभावी तद्भावः परिभाविता-अनादरः, न परिभाविता अपरिभाविता आदर इति । देशकालप्राप्तस्य तु प्रतिग्रहीतुर्वर्धमानश्रद्धाप्रापितेनादरेण दानम् । दित्सत इत्यादि । साधुदशेने याचने वा दातुमिच्छतः परमया प्रीत्याप्रहृष्टतया योगः । एवं च ददतो दत्तवतश्च कालत्रयेऽपि प्रहर्षयोगः। कुशलाभिसन्धितेति । भावकुशास्तु ज्ञानावरणादिकमांशास्ताल्लुनाति-छिनत्यपनयतीति कुशलः । अभिसन्धिरभिप्रायः। कुशलोऽभिसन्धिर्यस्य, कर्मनिर्जरापेक्षी तद्भावः कुशलाभिसन्धिता। दृष्टफलानपेक्षिता। दृष्टं फलं राज्यैश्वर्यसुखादि सर्व वा सांसारिकं स्वर्गाद्यपि दृष्टमेव बहुशोऽनुकूलत्वात् तन्नापे. क्षतेन प्रार्थयते यः स दृष्टफलानपेक्षी, तद्भावो दृष्टफलानपेक्षिता । निरुपधत्वमित्युपधा भावदोषो मायाकषायजनितः, यथा कचित् पटलकाद्युपकरणे देयस्यौदनादेरुपरि रचयति वर्णगन्धाध्यमधस्तु निःसारमित्येवमादि तदभावानिरुपधत्वमिति । निदानमुक्तलक्षणं स्वर्ममानुषजन्मविषयं तत्प्रात्यभिसन्ध्यभावात् निर्जरार्थमेव केवलमनिदानत्वमिति ॥
भा०- पात्रविशेषः सम्यग्दर्शनज्ञानचारित्रतपःसम्पन्नता इति ॥ ३४ ॥
टी०-पाति-रक्षति संसारात् दातारं दुर्गतिभयप्रपातादात्मानं चेति पात्रं तस्य विशे. पः-अतिशयः प्रकर्षवृत्तिता। कीदृशी पुनः सेत्याह-सम्यग्दर्शनज्ञानचारित्रसम्पन्नतति। तत्र सम्यक्त्वं नैसर्गिकाभिगमिकक्षायिकभेदात् प्रकर्षापकर्षवृत्ति । ज्ञानमध्यात्मपरिणामो ज्ञानाघरणीयादिक्षयोपशमजन्यः। चारित्रमपि सामायिकादिभेदाद बहुप्रकारम् । एभिः सम्पन्नतायुक्तता सम्यक्त्वादिपरिणामभाक्स्वमित्येवं विध्यादिविशेषाद् विशिष्टं विशिष्टतरं विशिष्टतमं च मोक्षपर्यवसानं दानफलं भवतीति ।। ३४ ॥ इति श्रीमदर्हत्प्रवचने तत्त्वार्थाधिगमे उमास्वातिवाचकोपज्ञसूत्रभाष्ये
भाष्यानुसारिण्यां च टीकायां सिद्धसेनगणिविरचितायां
अनगारागारिधर्मप्ररूपका सप्तमोऽध्यायः ॥७॥ १. सारादयो । इति ङ-पाठः। २'मार्गयन्ते' इति ङ-पाठः। ३ 'विषाद इति' इति च-पाठः । ४'ऽतिबहुदत्तं' इति च-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org