________________
११९
सूत्र ३४]
स्वोपज्ञभाष्य-टीकालङ्कृतम् चयापचयौ 'निर्जराहेतुविध्यादि(?)मात्रविध्यादिचतुष्टयापेक्षौ, तथा विध्यादिचतुष्टयप्रकर्षदेश कालोपपन्नकल्पनीयदानादेकान्तेनैव निर्जरा प्रकर्षवर्तिनी मन्दविध्यादिदानान्मन्दा मध्यविध्यादिदानान्मध्या । एतदेव भाष्येण विविच्य दर्शयति
भा०—विधिविशेषाद् द्रव्यविशेषाद् दातृविशेषात् पात्रविशेषाच तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच फलविशेषः ॥
टी-विधिविशेषादिति । पञ्चम्याः प्रागुक्तं लक्षणम् । विधानं विधिः विशिष्टप कारः तदतिशयात् पुण्यनिर्जरातिशयस्तदतिशयात् स्वर्गफल विशेषो मुक्तिफलप्राप्तिर्वा । द्रव्यमन्नादि तद्विशेषात् । तथा दातृविशेषात् पात्रविशेषाच । तद्विशेष इति तच्छब्देन दानधर्मः परामृश्यते । दानं-त्यागस्तदवाप्यो धर्मो दानधर्मः तस्य विशेषो-भेदः प्रकार्षापकर्षलक्षणः । दानधर्मभेदाच फलभेदः, कारणानुरूपकायेनिष्पत्तेः। एवं समासतः सूत्रार्थमाख्याय सम्प्रति विशेषेण विवृणोति
भा०-तत्र विधिविशेषो नाम देशकालसम्पत्श्रद्धासत्कारक्रमकल्पनीयत्वमित्येवमादिः॥
टी०-तत्रेत्यादि । तत्र-तेषु विध्यादिचतुर्पु विधिविशेषस्तावदयम् । नामशब्दो वाक्यालङ्कारे। देशकालसम्पदिति । व्यपगतस्थावरजङ्गमजन्तुको देशो दातुः प्रतिग्रहीतुश्चेति देशसम्पत्। कालसम्पदपि न रात्रौ दिवाऽपि स्वार्थ पक्लप्तेऽशनादौ उचिते भोजनकाले परिवेषकॉत्थितः स्वतश्च कडुच्छुषोकोखापडलकादङ्किकाधुपकरणव्यग्रकरासु सञ्चरतीषु पुरःकर्मपथात् काभावात् कालसम्पत् । एवं वस्त्रपात्रादिदानमप्युचितकाल इति । श्रद्धा गुणवत्सु दानाभिलाषो दत्तमेभ्यो बहुफलं भवति । सत्कारोऽभ्युत्थानासनप्रदानादिः प्रहर्षपुरःसरं देयगतः, तावत् क्रमो यो यत्र जनपदे प्रसिद्धः पटादिरन्यो वा । वस्त्रादिषु तु रत्नाधिकक्रमः । प्रकृष्टमध्यमजघन्यपात्रक्रमो वा। कल्पनीयत्वमुद्रमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्यपेयापेयग्राह्याग्राह्यता च । आदिग्रहणात् स्वयमेव स्वहस्तेन श्रद्धासंवेगानन्दप्रविकसितवदननयनोऽत्यर्थमहमनुगृहीत इत्येष विधिः॥
भा०-द्रव्यविशेषः अन्नादीनामेव सारजातिगुणोत्कर्षयोगः ।
टी०-द्रव्यविशेषो द्रव्यस्यातिशयः प्रकृष्टता । अन्नशब्देन चाशनं गृहीतम् । आदिशब्दात् पानखानखाधवस्त्रपात्रदण्डकौघोपग्रहभेदोपधिपरिग्रहः । तदेषामन्नादीनां सारजातिगुणोत्कर्षयोगः । सारोऽनस्याच्युतगन्धरसादित्वम् । जातिः शालिव्रीहिगोधूमादिका । गुणाः सुरभिलवणस्निग्धमधुरत्वादयः सुस्विन्नत्वादयो वा । एषां सारादीनामुत्कर्षःप्रकृष्टता तेन योगः-सम्बन्धः । एवं पानकादीनामपि । तथा वस्त्रपात्रदण्डकादीनां देशान्त
१ 'मन्दमध्याधिमात्र' इति ग-पाठः । २ 'मन्दामध्यः' इति च-पाठः। ३ 'विध्यादिमानं ' इति उ-पाठः । मुपकृते' इति उ-च-पाठः। ५ कात्थितश्वेतश्च' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org