________________
११८ तत्वार्थाधिगमसूत्रम्
[अध्यायः ७ जातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदाप्रशस्त्रादेरनेकपाणिदुःखहेतोः। किं तर्हि?, अन्नपानवस्त्रादेः। आदिग्रहणादौषिकौपग्रहिकसकलोपकरणपरिग्रहः । सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः। से च पुद्गलोस्पादनेनैषणाशुद्धः। स च दातुः प्रतिग्रहीतुथोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवदेवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् । यथाऽऽह
"ज न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसि ।
वट्टइ अणुग्गहे तं विहिए दिन्नं असावजं ॥१॥" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याहं पुत्रदुहितृभ्रातृपत्नीप्रभृति स्वामिना दत्तमनु. ज्ञातं प्रव्राज्यं, इत्थमुक्तेन न्यायेन देशकालोपपत्रमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् । अत्राधाकमोद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्पयोन्मुक्तिफलमपीति ॥ ननु च सम्प्रदानं यत् साक्षात् प्रतिगृह्णाति यथा साधुरणुव्रती वा । यत् पुनर्भगवते दीयते निर्वाणप्राप्तये पुष्पबलिधृपादि तत्र कथं भगवतः सम्प्रदानत्वम् ? अत्रो च्यते-त्रिविधं सम्प्रदानं, प्रेरका-ऽनुमन्त-अनिराकर्तृभेदात् । तत्र प्रेरकं यदर्थित्वमुपदर्शयत् कतारें क्रियायां प्रेरयति । यत्रेदमुच्यते साधुभ्यो भिक्षां ददातीति । अनुमन्त यथा-आचार्याय वासोयुगं ददातीति । आचार्यो हि यद्यप्यनार्थत्वान्न प्रेरयति दाने परं तथापि दातुरनुग्रहक्रियाचिकीर्षया दीयमानमनुमन्यते । अनिराकत यथा-भगवते पुष्पाणि ददाति धृपं वा, भगवान् न प्रेरयति नानुमन्यते, किन्तु परहितोयप्रतिघातपरिहारार्थमसन्निधाना दातारं न निराकरोति । अतो युज्यत एव सम्प्रदानत्वं भगवतः । यदा तीसनिधानादनिराकर्तृत्वं तदा कथं परोपयोगिता कर्मणः । नैवमुच्यते यत्र परस्योपयोगोऽवश्यमस्ति स त्याग इति, अपि तु यो व्यापारः कर्मणः परोपयोगाभिप्रायेण स त्यागः । असन्निहितेऽपि चोपयोक्तरि त्यक्तः सोऽमिसन्धिरस्तीत्यदोषः। कारकत्वं वा सनिहितस्य क्रियायां निमित्तभावात् । एतावतैव च कारकत्वमिष्टं, देवताश्च स्वगुणातिशययोगाद् दातुश्चेतसि प्रसादमादधानास्त्यागे निमित्ततां ऑफधन्त एवेति ॥ ३३ ॥ किश्वेत्यनेन प्रस्तुतस्य दानधर्मस्य तरतमादतिशयभेदप्रतिपत्त्या फलविशेषनिरूपणायाह
सूत्रम्-विधि-द्रव्य-दातृ-पात्र-विशेषाच तद्विशेषः ॥७-३४ ॥
टी०-विध्यादयः कृतद्वन्द्वाः तेषां विशेषः-अतिशयः प्रकर्षापकर्षयोगः तस्माद् विध्यादिविशेषाच धर्मविशेषः । धर्मश्च क्षमादिदशलक्षणकः, स पुण्योपचयनिर्जराहेतुः। पुण्योप
१ 'भवदुद्गमो०' इति च-पाठः। २ छाया
यत् न च दुःखितं न च दुःखकारणं भवति दत्तमन्येषाम् ।
वर्ततेऽनुग्रहे तद् विधिना दत्तमसावद्यम् ॥१॥ ३ सन्तुल्यतामाचारावृत्तिगतं यत्स्वयमदुःखितं स्यात्' इत्यादिपूर्वकं पद्यम् । ४ 'देयव्रताघात' इति -पाठः । ५ 'एतावदेव च' इति ङ-पाठः । ६ 'अपि प्रतिपाद्यन्त ' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org