________________
सूत्रं १-]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१२३
लस्य वस्तुनो वेदिताऽस्तीति । ते चाज्ञानपक्षावलम्बिनः सप्तषष्टिमेदाः केनचिद् विशेषेण भिद्यमानप्रक्रियाः सुगत शिष्य काणामष्टादश निकाय भेदवन्नानात्वं प्रतिपद्यन्ते । एतद्दर्शन भ्रमितचेतसश्च शाकल्य- बाष्कल- कुथुमि सात्य मुग्रि-राणायन - केठ-मध्यन्दिन-मोद पिप्पलादबादरायण- स्विष्टकृदं-नि- कात्यायन- जैमिनि वसुप्रभृतयः सूरयोऽसन्मार्गमेनं प्रथयन्ति । आदिशब्दात् क्रियावादिनोऽक्रियावादिनो वैनयिकाच सूचिताः । तत्र क्रिअज्ञानिकादीनां यावादिनोऽशीत्युत्तरशत भेदाः मरीचि कुमार कपिलो ल्लक गार्ग्य-व्यासूरयः प्रभूति-वाद्वलि - माठर-मौद्गल्यायनप्रभृत्याचार्यप्रतीयमानप्रक्रियाभेदाः । अक्रियावादिनोऽपि चतुरशीतिविकल्पाः कोकुल-काण्ठे विद्धि-कौशिक- हरिश्मश्रु-मान्धनिक-रोमक- हारित-मुण्डाश्वलायनांदिस्वरि (?) प्रथितप्रक्रियाकलापाः । वैनयिकास्तु द्वात्रिंशद्विकल्पाः वसिष्ठ- पराशर जातूकर्ण- वाल्मीकि-रोमहर्षणि- सत्यदत्त-व्यासे - लापुत्रौ - पमन्य-चन्द्रदत्ता-यस्थूलप्रभृतिभिराचार्यैः प्रकाशित विनयसाराः । एवमेतान् मिथ्यात्व भेदानभिधाय संकलयति भाष्यकृदेकराशितया त्रयाणामित्यादिना भाष्येण । त्रिश ब्दः संख्यावचनः अन्यूनानधिकवृत्तिः । एवं शतशब्दोऽपि । कियतां शतानां १ त्रयाणामित्याह । कियता राशिनाऽधिकानाम् ? त्रिषष्टीनामित्याह, अभ्यधिकानां त्रिषष्टया । कुत्सिता वादिनः कुवादिनः, एकान्तग्रहग्रस्तत्वाद् यत्किञ्चित् प्रलपन्तीत्यर्थः । शेषमनभिगृहीतमिति मिथ्यात्वमभिसम्बध्यते । अभिगृहीतमिथ्यादर्शनम् यदन्यत् तच्चार्थाश्रद्धानं तदनभिगृहीतमिथ्यादर्शनम्, अनभिनिवेशमिथ्यात्वमित्यर्थः ॥
भा०- यथोक्ताया विरतेर्विपरीताऽविरतिः ।
टी० येन प्रकारेणाभिहिता सप्तमाध्यायादौ विरतिः हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो मनोवाक्कायैः कृतकारितानुमतिभिरुक्ता तस्या विरतेर्यथोक्ताया विपरीता अविरतिः हिंसादिषु प्रवृत्तिः, असंयम इतियावत् ||
भा० -प्रमादः स्मृत्यनवस्थानं कुशलेष्वनादरः योग-प्रमादस्य त्रैविध्यम् ष्प्रणिधानं चेत्येष प्रमादः ॥
टी० - मोक्षमार्गशैथिल्य मिन्द्रयदोषात् प्रमादः, प्रमाद इत्यनूद्य स्वरूपमाचष्टे -स्मरणंस्मृतिः पूर्वोपलब्धवस्तु विषया तस्या अनवस्थानं - अंशः । विकथादिव्यग्र चित्तत्वादिदं । विधायेदं कर्तव्यमिति नाध्येति । कुशलेष्वनादर इति स्मरतोऽपि कुशलानाम् - आगमविहितानां क्रियानुष्ठानानां अनादरः - अनुत्साहः, अप्रवृत्तिरित्यर्थः । योगदुष्प्रणिधानं
१ ' कवमध्य ०' इति छ पाठः । २ 'दितिकायन-' इति छ पाठः । ३ ' विस्वरि' इति च पाठः । ४ 'चैष
प्रमादः' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org