________________
सूत्रं ३१]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
११५
कन्दाकादिसाधारणवनस्पतिप्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः । पृथिव्यादिकायानां वा सचित्तानाम् । तथा सचित्तेन सम्बद्धं कर्कटिकबीजकौलिकाकुलस्य पकबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बद्धाहारत्वम् । तथा सचित्तेन सम्मिश्राहारः पुष्प-फलबीहि-तिलानांव्यतिमिश्रमोदकादिखाद्यस्य वा । कुन्थुपिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारः अभिषवाहार इति । सुरासौवीरकमांसप्रकारपर्णक्याउनेकद्रव्यसङ्घातनिष्पन्नः सुरासीधुमधुवारादिरभिवृष्यवृक्षद्रव्योपयोगो वा। दुष्पकाहार इति । दुष्पकं मन्दपकर्मभिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककण्डुकादि तस्याभ्यवहार ऐहिकप्रत्यवायकारी, यावता वार्डशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥ ३०॥
उक्तमुपभोगपरिभोगव्रतातिचारविधानम् , तदनन्तरं व्याख्यातातिथिसंविभागातिचारप्रदर्शनार्थमिदमुच्यतेअतिथिसंविभागवत- सूत्रम्-सचित्तनिक्षेपपिधानपरव्यपदेशस्य पञ्चातीचाराः मात्सर्यकालातिक्रमाः ॥७-३१॥
भा०–अन्नादेव्यजातस्य संचित्तनिक्षेपः सचित्तपिधानं परस्येदमिति परव्यपदेशः मात्सर्य कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा भवन्ति ॥ ३१॥
टी०-अन्नादेरित्यादि । अन्नमोदनखाद्यकादि चतुर्विध आहारोवाऽशनादिः तस्य सचित्तेषु व्रीहि-यव-गोधूम-शाल्यादिषु निक्षेपः। तच्चान्नादि कया बुद्धया निक्षिपति? अदानबु
था। एतच्च जानात्यसौ-सचित्ते निक्षिप्तं सत् न गृह्णन्ति साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लामोऽयं ममेति । सचित्तपिधानमिति । सचित्तेन पिधानं-स्थगनं सूरणकन्दपत्रपुष्पादिना तत्रापि तथाविधयैव बुद्धया सचित्तेन स्थगयति । परव्यपदेश इति साधोः पौषधोपवासपारणाकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिति नास्माकीनं अतो न ददामीति, न चैष परमार्थः, परमार्थतस्तु वदीयमेव तत् । अथवा परस्य-अन्यस्येदमस्तीति तत्र गत्वा मार्गयत यूयमिति । मात्सर्यमिति । मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति । अथवा तेन तावत् द्रमकेण दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद ददाति । परोनतेर्वैमनस्यं च मात्सर्यम् , कषायरूषितेन वा चित्तेन ददतो मात्सर्यमिति । कालातिक्रम इति । उचितो यो भिक्षाकालः साधनां तमतिक्रमय्यानागतं वा भुङ्क्ते पौषधोपवासी, स च कालातिक्रमो ग्रहीतुरप्रीतिकरोऽप्रस्तावाददानं चेत्यतीचारः । इत्येते पश्चातिथिसंविगस्यातीचारा भवन्ति ॥ ३१ ॥
१'कोकिलिकाकुलादिना' इति ङ-पाठः । २ 'मस्विन्न.' इति च-पाठः । ३ 'हारादिकप्रत्य.' इति च-पाठः । ४ ' सचित्ते निक्षेपः' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org