SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ११४ तत्त्वार्थाधिगमसूत्रम् ., [ अध्यायः ७ कथिताः सामायिकातिचारास्तत्समीपोदेशभाजः खलु पौषधोपवासस्य केऽतिचारा इत्याहपौषधोपवासव्रतस्य सूत्रम्-अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसं- .. पञ्चातीचाराः ___ स्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥७-२९॥ भा०-अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः अप्रत्युपेक्षिताप्रमार्जितस्यादाननिक्षेपी अप्रत्यवेक्षिताप्रमार्जितसंस्तारोपक्रमः अनादरः स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥ २९ ॥ टी०-प्रत्यवेक्षणं-चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजङ्गमजन्तुशून्यताप्रमार्जनं वस्त्रप्रान्तादिना, विशुद्धिहेतोर्यथा युज्यमानम् , आगमोपयुक्तस्य प्रतिपन्नपौषधोपवासस्यायं क्रियाकलापोऽगारिणः प्रतिनिर्दिश्यते। उत्सर्गः-त्यागो निष्ठ्यूत-स्वेद-मलमूत्र-पुरीषादीनां, प्रत्यवेक्षिते प्रमार्जिते चोत्सर्गः कार्यः। अथवा अप्रत्यवेक्षिताप्रमार्जिते उत्सर्ग करोति ततः पौषधोपवासव्रतमतिचरतीति । आदानं-ग्रहणं यष्टिपीठफलकादीनाम् । तदपि प्रत्यवेक्ष्य प्रमृज्य च कार्यम् । अन्यथाऽप्रत्यवेक्षिताप्रमार्जितस्यादानमतिचारो, निक्षेपश्च । तथा प्रत्यवेक्षितेप्रमार्जिते च भूप्रदेशे संस्तारोपक्रमः । संस्तारः संस्तीर्यते यः प्रतिपन्नपौ. षधोपवासेन दर्भकुशकम्बलीवस्त्रादिस्तस्योपक्रमः-करणमनुष्ठानं, भूप्रदेशे, यद्वा दर्भादि संस्तीर्यते तत् प्रत्यवेक्ष्य प्रमृज्य चेति, अन्यथाऽतीचारः। अनादरः स्मृत्यनुपस्थापनं च प्राय व्याख्यातम् । अनादरः पोषधोपवासप्रतिपत्तिकर्तव्यताक्रियायां, तद्विषयमेव स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचारों भवन्तीति ॥ २९॥ सम्प्रति प्रस्तावायातानुपभोगपरिभोगातिचारान् वक्तुकाम आहसूत्रम्-सचित्त-सम्बद्ध-संमिश्रा-भिषव-दुष्पकाहाराः ॥७-३०॥ टी०-भोजनकृतमुपभोगं विशिनष्टि भाष्येण भा०-सचित्ताहारः सचित्तसम्बद्धाहारः सचित्तसंमि. उपभोगपरिभोगव्रत " श्राहारः अभिषवाहारः दुष्पकाहारः इत्येते पञ्च भोगव्रत. स्यातिचारा भवन्ति ॥ ३०॥ टी-चित्तं चेतनो संज्ञानमुपयोगोऽवधानमिति पर्यायाः । सचित्तश्चासावाहारथ सचित्ताहारः। सचित्त आहारो वा यस्य, सचित्तमाहारयतीति वा सचित्ताहारः, मूलकन्दली १.३ 'अप्रत्युपेक्षिता०' इति ग-पाठः। ४ 'उपभोग०' इति घ-पाठः । स्य पश्चातीचाराः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy