________________
सूत्रं २८ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
११३
कौत्कुच्यं नामेत्यादि । नामशब्दोऽलङ्कारार्थः । एतदेव च वाचो व्यापारणं हसनं चोभयं - द्वयमपि, दुष्टकायप्रवीचारसंप्रयुक्तमिति । दुष्टः कायप्रवीचारो मोहनीयकर्मोदय समावेशाद तद्युक्तं - तत्सम्बद्धमुभयमपि वाग्व्यापारोपसर्जनं कायव्यापारप्रधानं कौत्कुच्यमिति । ० - मौखर्यमसम्बद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरणं लोकप्रतीतम् । उपभोगाधिकत्वं चेति ॥ २७ ॥
भा०
टी० - मौखर्यमित्यादि । मुखरोऽनालोचितभाषी तुण्डिलः, तदेवाचष्टे - असम्बद्धबहुप्रलापित्वमिति । असम्बद्धमिति पूर्वापरेणाघटमानं, बहु प्रलपति तच्छील बहुप्रलापी तद्भावो बहुप्रलापित्वम्, यत्किञ्चिदसम्बद्धं जल्पति, न च खात्मनः कञ्चिदर्थं साधयतीति । असमीक्ष्याधिकरणं अनालोच्याधिकरणम् । असमीक्ष्य कुर्वाणः, स्वात्मानं नरकादिष्वधिकरोति येन तदधिकरणं, तच्च लोकप्रतीतमिति । यन्नात्मनः कञ्चिदुपकारं करोति परप्रयोजनमेव केवलं साधयति तदसम्यीक्ष्याधिकरणं आत्मनोऽनुपयोगादिति विवेकिजनप्रतीतम् । उपभोगाधिकत्वं चेति । लोकप्रतीतमेवेत्यभिसम्बध्य स्नानालङ्कारादि यावदुपभुज्यते स्वात्मनस्तावदेव पेषयतीत्यादिक्रियालक्षण उपभोगस्ततोऽन्यस्याधिक्यमित्युपभोगाधिकस्वम्, अनर्थदण्डविरतेः पञ्चातिचारा भवन्ति ॥ २७ ॥
अनर्थदण्डानन्तरोपदिष्टसामायिकाविचारप्रसिद्ध्यर्थमिदमुच्यते
सामायिक व्रतस्य पञ्चातीचाराः
सूत्रम् - योग दुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ ७-२८ ॥
भा०—- काय दुष्प्रणिधानं वाग्दुष्प्रणिधानं मनोदुष्प्रणिधानं अनादरः स्ट नुपस्थापनं इत्येते पञ्च सामायिकव्रतस्यातिचारा भवन्ति ॥ २८ ॥
●
टी० - युज्यन्त इति योगाः - कायादयः । प्रणिधानं प्रयोगः । दुष्टं प्रणिधानं दुष्प्रणिधानम् । दुष्प्रणिधानशब्दस्य च प्रत्येकमभिसम्बन्धं दर्शयति- काय दुष्प्रणिधानमिति । शरीरावयवाः पाणिपादादयस्तेषामनिभृतत । वस्थापनं काय दुष्प्रणिधानम् । वर्णसंस्काराभावार्थानवगमचापल्यानि वाकक्रिया वाग्दुष्प्रणिधानम् । क्रोधलोभाभिद्रोहाभिमानेर्ष्यादिकार्यव्यासङ्गजातसम्मो दुष्प्रणिध से मन इति मनोदुष्प्रणिधानम् । अनादरोऽनुत्साहः, प्रतिनियतायां वेलायामकरण सामायिकस्य, यथाकथञ्चित् प्रवृत्तिरनादरः - अनैकाग्र्यं; स्मृत्यनुपस्थापनमुद्भ्रातचित्तता, स्मृतेरनुपस्थापनं स्मृत्यभावः । किंविषयायाः स्मृतेः ? सामायिकप्रस्तावात् तद्विषयाया इति । सामायिकं मया कर्तव्यं न कर्तव्यमिति वा कृतं न कृतमिति वा स्मृतिभ्रंशः । स्मृतिमूलत्वाच्च मोक्षसाधनानुष्ठानस्येति, एते पञ्च सामायिक व्रतस्थातिचारा भवन्तीति॥२८॥ १ ' भवन्तीति' इति च पाठः । २ ' मनोदुःप्रणिधानं वाग्दुः प्रणिधानं ' इति कन्पाठः ।
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org