________________
११२
तत्वार्थाधिगमसूत्रम् .
[अध्यायः७ वात् लोष्टादीन परेषां प्रतिबोधनाय क्षिपति । लोष्टादिपातसमनन्तरमेव च ते तत्समीपमनुधावन्तीत्येते पञ्च देशव्रतस्यातिचारा भवन्ति यस्माद् गमनागमनजनितप्राणव्यपरोपणपरिजिहीर्षया देशावकाशिकवतमभिगृह्यतेऽगारिणः तत्र स्वयमुपमर्दः कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने कियानपि गुणो लक्ष्यते । ईर्यापथविशुद्धौ स्वयं निपुणत्वात्, परस्य च प्रमादवतो गमने (आगमने) भूतोपमर्दसम्भवादिति ॥२६ ॥
एवं प्रज्ञप्ते देशव्रतातिचारेऽनर्थदण्डविरतेरविचाराभिधित्सयेदमुच्यते-- अनर्थदण्डविरमण
म. सूत्रम्-कन्दर्प-कौत्कुच्य-मौखर्या-समीक्ष्याधिकरणोप्रतस्य पश्चातीचाराः
. पभोगाधिकत्वानि ॥७-२७॥ टी-कन्दर्पः-कामस्तद्धेतुः विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते। रागोद्रेका प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । मुखनयनोष्ठचरणधूविकारपूर्वकः परिहासादिजनको भाएंडावकरस्येव कायिको व्यापारः। कौत्कुच्यं कुत्सितसङ्कोचनादिक्रियायुक्तः कुत्कुचः तद्भावः कौत्कुच्यम्-अनेकप्रकारा भाण्डादिविडम्बनक्रियाः । कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । अन्ये पठन्ति कौकुच्यमिति तेषां कुत्सितः कुचः संकोचनादिक्रियाभाक् तद्भावः कौकुच्यम्। धाष्टयप्रायमसभ्यासम्बद्धबहुलप्रलापित्वं मौखयम् । असमीक्ष्य-अनालोच्य प्रयोजनमात्मनोऽर्थमधिकरणं उचितादुपभोगादतिरेककरणमसमीक्ष्याधिकरणं मुसलदात्रशिलापुत्रकशस्त्रगोधूमयन्त्रकशिलाग्न्यादिदानलक्षणम् । उपभोग आत्मनः पान-भोजन-चन्दनकुडम-कस्तूरिकाविलेपनादिः । अतिरिक्तोऽन्यार्थो दण्डोऽनर्थदण्डः केवलमेनसो हेतुः। प्रत्येकमुपभोगस्तुल्य एवेत्युपभोगादधिकत्वमुपभोगाधिकत्वमिति कृतद्वन्द्वाः पश्चाप्यनर्थदण्डविरतिव्रतस्यातिचारा भवन्तीति ॥
भा०-कन्दर्पः कौत्कुच्यं मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमित्येते पश्चानर्थदण्डविरतेरैतिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगः हास्यं च । कौत्कुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् ॥
टी-कन्दर्प इत्यादि भाष्यं प्रायो गतार्थम् । तत्र कन्दर्पो नामेत्यादि । तत्रतेषु पञ्चस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, राग:कामानुषङ्गी स्नेहस्तत्सम्बद्धः, सभाहे:-सभ्यः, न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगः हास्यं चेति । वाचः प्रयोग-उच्चारणं वाक्प्रयोगः। हास्यं हि यावदस्पष्टवर्णश्रुतिरूपमिति ।
१'विरत्यति' इति ङ-पाठः। २' कौकुच्य०' इति घ-पाठः। ३ भण्डोऽवकरणस्येव ' 'भण्डचरणस्येव' इति पाठौ । ४ 'रतिव्रतस्यातिचारा' इति घ-पाठः । ५ 'नाम सरागसं०' इति ग-पाठः । ६ 'कायप्रवीचार' इति घ-ची पाठः। 'मोहोदयादवस्पष्ट• ' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org