________________
सूत्र २६) .. स्वोपज्ञभाष्य-टीकालङ्कृतम्
१११ चाराः पञ्च दिग्वतस्यातीचारा भवन्ति। ऊर्ध्व पर्वततरुशिखरारोहणादिपरिमाणम्। अधश्चाधोलौकिकग्रामभूमिगृहकूपादिपरिमाणम्। तियंगपि योजनमर्यादाभिग्रहव्यतिक्रमः। क्षेत्रवृद्धिरित्येकतो योजनशतपरिमाणमभिगृहीतम्, अन्यतो दश योजनानि अभिगृहीतानि, दिशि तस्यामुत्पन्ने प्रयोजने योजनशतमध्यादपनीय अन्यानि दश योजनानि तत्रैव स्वबुद्धयाऽने प्रक्षिपति संवर्धयत्येकत इति क्षेत्रवृद्धिरेषा । स्मृत्यन्तर्धानस्वरूपमाचष्टे । स्मृतेभ्रंशोऽन्तर्धानमिति अविस्मृतिमूलं नियमानुष्ठानम् । स्मृतिभ्रंशे तु नियमत एव नियमभ्रंशः किं मया परिगृहीतं कया मर्यादयेति व्रतमित्यस्मरतोऽन्तर्धानम्-अपाकरणं, तिरस्करणं नियमस्येति ॥ २५॥
देशव्रतविरतेरतिचाराभिधानायाहदेशावकाशिकवतस्य सूत्रम्-आनयनप्रेष्यप्रयोगशब्दरूपानुपातपश्चातीचारा
पुद्गलक्षेपाः ॥ ७–२६ ॥ भा०-द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपातः पुद्गलक्षेप इत्येते पश्च देशव्रतस्यातिचारा भवन्ति ॥ २६ ॥ दिग्देशव्रतयोर्विशेषः
टी-दिव्रतविशेष इव देशव्रतम् । इयांस्तु विशेषः-एकं यावज्जीवं
संवत्सरं चतुर्मासपरिमाणं वा । देशव्रतं तु प्रतिदिवसं प्रतिप्रहरं प्रतिमुहूर्तादिपरिमाणम् । अस्यातिचाराः पञ्च भवन्ति-द्रव्यस्यानयनमित्यादि । विशिष्टावधिके भूप्रदेशाभिग्रहे परतो गमनासम्भवात् सतो यदन्योऽवधिकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयनाय प्रयुज्यते त्वयेदमानेयं सन्देशकदानादिनाऽऽनयनप्रयोगः । आनायनप्रयोगः इत्यपरे पठन्ति । बलाद् विनियोज्यः प्रेष्यप्रयोगः यत्राभिगृहीतप्रविचार(१)देशव्यतिक्रमभयात् प्रेष्यं प्रहिणोति त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयं इदं वा कर्तव्यं तत्रेति प्रेष्यप्रयोगः । स्वगृहवृतिप्राकारादिविच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजने उत्पन्ने स्वयमगमनात् वृतिप्रकारप्रत्यासन्नवी भूत्वा अभ्युच्छसितादि शब्दकरणेन समवसतिकान् बोधयति । ते च तच्छब्दश्रवणात् तदुपकण्ठमाढौकन्त इति स देशवतातिचारः। अनुपातशब्दः प्रत्येकमभिसम्बध्यते । शब्दमनु पततीति शब्दानुपातः । स.एव श्रोता पुरुषः । अथवा शब्दस्यानुपतनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतति शब्दः, तथा रूपानुपात:शब्दमनुच्चारयन्नुत्पन्न प्रयोजनः स्वशरीररूपं परेषां दर्शयति, तदर्शनाच्च तत्समीपमागच्छन्ति ते द्रष्टार इति रूपानुपातः। तथा पुद्गलप्रक्षेपातिचारः। पुद्गलाः परमाण्वादयः। तत्संयोगाद् द्वयणुकादयः स्कन्धाः सूक्ष्मस्थूलभेदाः। तत्र ये बादराकारपरिणता लोष्टेष्टकाष्ठशकलादयस्तेषां क्षेपः-प्रेरणम् । कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभा
१'पुद्गलप्रक्षेपाः' इति घ-टी-पाठः । २ 'संदाना' इति ङ-पाठः । ३ 'तत्र कर्तव्यमिति' इति -पाल ।
Jain Education International
For Private & Personal use. Only
www.jainelibrary.org