________________
११० . तत्त्वार्थाधिगमसूत्रम् ..
[अध्यायः ७ भा०-क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धनधान्यप्रमाणातिकमः दासीदासप्रमाणातिक्रमः कुप्यप्रमाणातिक्रमः इत्येते पञ्च इच्छापरिमाणव्रतस्यातिचारा भवन्ति ॥ २४ ॥
टी-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि । तत्र क्षेत्रं सस्योत्पत्तिभूमिः। तच्च सेतुकेतुमे
___ दाद् द्विविधम् । तत्र सेतुक्षेत्रं अरवद्वादिसेक्यम् । मेघाकाशपतितोदकनिष्पाद्यवास्तुभदा सस्य केतुक्षेत्रम् । वास्तु अगारं गृहमुच्यते । तदपि त्रिविधं खातं भूमिगृहकादि, उच्छितं प्रासादादि,खातोच्छ्रितं भूमिगृहस्योपरि प्रासादादिसन्निवेशः,तेषां क्षेत्रवास्तूनांप्रमाणं प्रत्याख्यानकालेऽभिगृहीतम्-एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं यावचतुर्मासी संवत्सरं यावज्जीवं वा । अवधिकृतकालाभ्यन्तरे संकल्पितप्रमाणातिरेकक्षेत्रवास्तुग्रहणं इच्छापरिमाणव्रतातिचारः । हिरण्यं रजतं घटितमघटितं वाऽनेकप्रकारं पायोदिकम् । तथा सुवर्णमपि । एतद्ग्रहणाच्वेन्द्रनीलमरकतायुपलकपरिग्रहः । सर्वेषामभिगृहीतप्रमाणातिक्रमेऽ. तिचारः । धनं गो-महिष्य-जाविका-करभ-तुरग-करिप्रभृतिचतुष्पदपरिग्रहः । धान्यं व्रीहि. कोद्रव-मुद्ग-माष-तिल-गोधूम-यवप्रभृति सर्वमगारिणा परिमितं ग्राह्यं, उपरिप्रमाणाद् ग्रहणमतिचारः। दासीदासाः कर्मकराः उपरुधिका वा परिणयनादिविधिना स्वीकृता वा पत्नीत्यादिसकलद्विपदाभिगृहीतपरिमाणातिक्रमोऽतीचारः। ततश्च हंस-मयूर-कुर्कुट-सारिकादीनां च प्रमाणातिक्रमेऽतिचारः । कुप्यं कांस्य-लोह-ताम्र-सीसक-त्रपु-मृद्भाण्डक-त्वचिसार-विकारोदन्तिका-रोदन्तिका-काष्ठ-कुंण्डक-पारी-मश्चक-मश्चिकादिप्रमाणातिरेकग्रहणमतिचार इति । एवमेते इच्छापरिमाणव्रतस्यातिचाराः पश्च भवन्तीति ॥ २४ ॥
___ एवमणुव्रतातिचारानभिधाय सम्प्रति दिगादिव्रतानां क्रमेणातिचारानभिधातुमिच्छबाह । तत्र दिव्रतस्य तावत्दिग्वतस्य पञ्चाती- सूत्रम्-ऊोधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिचाराः
स्मृत्यन्तर्धानानि ॥ ७-२५ ॥ भा०-ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानमित्येते पश्च दिग्वतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानमिति ॥२५॥
टी०-ऊर्ध्वमधस्तिर्यक प्राक्परिगृहीतस्य परिमाणस्य व्यतिक्रमः इति। व्यतिक्रमः प्रत्येकमभिसम्बन्धनीयः। क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति । सर्वे कृतद्वन्द्वा दिक्परिमाणस्याती
१ 'दासदासी-' इति क-ग-पाठः। २ 'पत्रादि ' इति ग-पाठः । ३ 'कुचुक ' इत्यपि पाठः। ४ ' नियम ऊर्ध्व स्मृते. ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,