________________
सूत्र २४]
. . स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रकारा कामसेवा सर्वेषामनङ्गक्रीडा बलबति रागे प्रसूयते । समाचरतश्चैवमधैर्येण क्लिष्टचित्तस्य कियत् फलम् ?, तात्कालिकी छिदा व्याधेस्तावदेव फलं, इतरस्य च मार्गेणर्जुना सेवमानस्येति, नानङ्गक्रीडया कश्चिद गुणोऽतिरिक्तो लक्ष्यत इति उभयोरुभयमतिचार इति । तीव्रकामाभिनिवेश इति । तीव्र:-प्रकर्षप्राप्तः कामेऽभिनिवेशस्तीत्रकामाभिनिवेशस्तावत् पर्यन्तचित्तता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायिता मुखपोषोपस्थकक्षान्तरेष्ववितृप्ततया प्रक्षिप्य लिङ्गमास्ते मृत इव महती वेलां निश्चलश्चाटकैर इव मुहुर्मुहुश्चटकायामारोहति योषिति, वाजीकरणानि चोपयुक्त जातकलमलकः । अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरङ्गावमर्दी च भवति
सूत्रपाठ- पुरुष इत्ययमप्युभयोरतीचार इति । एते पञ्च ब्रह्मवतस्यातीचारा भवन्तीति । परामर्शः अन्ये पठन्ति सूत्रम्-"परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेश" इति । तत्र न बुद्ध्यामहे इत्वरिकापरिगृहीतागमनमिति । यदि कर्मधारयस्ततः पुंवद्भावः। अथासमासस्ततः सम्बन्धोऽपि दुर्घटः । न चान्यः प्रकारः समस्ति । अन्ये त्वन्यथा पदानि वैदन्ति । परविवाहकरणं इत्वरिकागमनं परिगृहीताऽपरिगृहीतागमनं अनङ्गक्रीडा तीवकामाभिनिवेश इति त एवंवादिन इत्वरिको व्याचक्षते । कुत्सितसंकीर्णयोषिदित्वरिका । तद्यथा-उन्मत्ता बधिरा अन्धा मंकिका बाला दीक्षितेत्यादिका । एतदभिगमात् किल राजभयलोकाकीर्तिप्रत्यवायसम्भवः । पॅरिगृहीता किल प्रोषितभर्तृकेति सर्वमिदमननुपाति व्याख्यानमित्यपर्कर्ण्यम् ॥
भा०—परविवाहकरणं इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा तीवकामाभिनिवेश इत्येते पञ्च ब्रह्मव्रतस्यातिचारा भवन्ति ॥२३॥ .
टी०-गतार्थमेवेति ॥ २३ ॥
इच्छापरिमाणवतातिचारव्याचिख्यासयेदमाहस्थूलपरिग्रहपरिमाण- सूत्रम्-क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदासव्रतस्य पश्चातीचाराः
कुप्य-प्रमाणातिक्रमाः॥७-२४॥ टी०-क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेषामुल्लवनम्-अतिक्रमः, प्रमाणातिक्रम इति प्रत्येकमभिसम्बध्य भाष्यकृद् दर्शयति
१ पर्यन्तच्छिन्नता' इति ङ-पाठः, 'पर्यन्तश्चित्तता' इति तु क-ग-पाठः । २' सुखाय स्वकक्षान्तरे। इति ङ-पाठः। ३'छिदन्ति' इति च-पाठः । ४ 'तार्किका' इति ङ-पाठः, 'अस्तकिका' इति तु च-पाठः, ५'परिगृहीतापरिगृहीता' इति च-पाठः। ६ 'कर्ण्यते' इति क-ग-पाठः।' 'तीतोऽतिकामा० ' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org