________________
तार्थाधिगमसूत्रम्
[ अध्यायः ७
तक्र-ताम्र-कांस्यादिपरिग्रहः । व्याजीकरणानि चेति । व्याजीकरणमपहृतानामन्यैर्गवादीनां सशृङ्गाणामनिककालिङ्गी फलस्वेदितानि शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यक् कलितानि वा यथारुचि शक्यन्ते कर्तु येथाऽन्यत्वमित्र प्रतिपद्यन्ते गवादयः । तथा कृतेषु शृङ्गेषु न सुखेनावधार्यतेऽन्यहस्ते वा विक्रीयन्त इति व्याजः । छद्माच्छद्मरूपाणां छद्मरूपत्वापादनं व्याजीकरणम् । एवमेते पञ्चास्तेयत्रतस्यातिचारा भवन्ति ॥ २२ ॥ चतुर्थाणुव्रतस्यातिचाराभिधित्सयेदमुच्यते
स्थूलमैथुनविरमण- सूत्रम् —–— परविवाहकरणे - त्वरपरिगृहीता-परिगृहीतागमनाऽनङ्गक्रीडा - तीव्रकामाभिनिवेशाः ॥ ७- २३ ॥
व्रतस्य पञ्चातिचाराः
टी० - एते पञ्च ब्रह्मव्रतस्यातिचाराः कृतद्वन्द्वा निर्दिष्टाः । पर विवाहकरणं, इन्वरपरिगृहीतागमनं, अपरिगृहीतागमनं, अनङ्गक्रीडा, तीव्रकामाभिनिवेशश्चेति । तत्र परविवाह करणमिति । स्वापत्यस्यागारिणोऽवश्यं तयैव विवाहः कार्यः, पर विवाह करणात् तु निवर्तते । गृहस्थ द्वाभ्यां प्रकाराभ्यामब्रह्मणो निवर्तते स्वदार सन्तोषप्रतिपच्या परपरि - नाभिगमनेन वा । स्वदारसेवनमेव प्रथमोऽभ्युपैति शेषात् निवर्तते । द्वितीयस्तु परपरिगृहीतदारासेवनात् निवर्तते, न स्वदारेभ्यो न वा अपरिगृहीतवेश्यादिभ्यः । तयोश्व यथासम्भव - तिचारा स्वमतानुसारेणाभ्युद्याः । तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते तस्य विवाह करणं - विवाह क्रिया, कन्याफललिप्सया वा स्नेहसम्बन्धेन वा । इत्वरपरिगृहीतागमनम् । प्रतिपुरुषगमनशीला इत्वरा - वेश्याऽनेक पुरुषगामिनी भवति । तस्यै च यदाऽन्येन कश्चित् कालमभिगृह्य भाटी दत्ता भवति तावन्तं कालं अगम्याऽसौ निवृत्तपरदारस्य भवति । इत्वरा चासौ परिगृहीता चेति इत्वरपरिगृहीता । गमनम् - अभिगमोमैथुनासेवनम् । अथवा इत्वरं स्तोकमप्युच्यते । इत्वरं - स्तोकमल्पं परिगृहीता इत्वरपरिगृहीता, अकृतलक्षणस्तत्पुरुषो मयूरव्यंसकादौ क्षेप्यः । अथवा इत्वरकालं परिगृहीता । शाकपार्थिवादित्वात् समासः काल (शब्द) लोपश्च । अपरिगृहीतागमनम् । वेश्या स्वैरिणी प्रोषितभर्तृकादिरनाथा अपरिगृहीता तदभिगममाचरतः स्वदारसन्तुष्टस्यातिचारः, न तु निवृत्तपरदारस्य । अनङ्गः कामः कर्मोदयात् पुंसः स्त्रीनपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा योषितोsपि योनिपुंमपुरुषासेनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसकपुरुषस्त्री सेवनेच्छा हस्तकर्मादीच्छा वा स एवंविधोऽभिलाषोऽभिप्रायो मोहोदयादुद्भूतः काम उच्गते, नान्यः कश्चित् कामः । तेन तर्त्तक्रीडा -रमणमनङ्गक्रीडा आहार्यैः काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रजननैः, कृतकृत्योऽपि च स्वलिङ्गेन भूयो मृद्नात्येवावाच्यप्रदेशं योषिकेशकर्षणप्रहारदानदन्तनखकदर्थनाप्रकारैर्मोहनीय कर्मवशात् किल क्रीडति, तथा
१०८
तथा
,
१ ' ततश्चान्य ० ' इति च पाठः । २ ' करणमित्वर:' इति क ख ग - पाठः । ३ ' तत्र क्रीडा ' इति ङ-पाठः । ४' गृह्णात्येव ' इति पाठः । ५ ' कर्मावेशात्' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org