________________
सूत्रं २२]
. स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-एते इत्यादि गतार्थम् । तत्रेत्यादि । तत्र-तेष्वतीचारेषु । स्तेनप्रयोगस्तावदयम्-स्तेनेषु-तस्करेषु सम्भवति हिरण्याद्यर्थ प्रयोगो हिरण्यादिप्रयोगः हिरण्यं रजतं घटिताघटितरूपम् । आदिशब्दात कनकं च । घर्घरका याभिनन्धि छित्त्वा गृहातीति । तथा खात्रखननकादि, एवं विधमुपकरणं नाणुव्रतिना निवर्तनीयं न विक्रेयमिति । स्तेनैरित्यादि । तस्करोपनीतस्य द्रव्यस्य रजतादेर्मुधा-विना मूल्येन क्रयेण वा मूल्यप्रदानेन ग्रहणं तदाहृतादानं अनेकप्रत्यवायमिति परिहार्यम् ॥
भा०-विरुद्धराज्यातिक्रमश्चास्तेयव्रतस्यातिचारः। विरुद्धे हि राज्ये सर्व मेव स्तययुक्तमादानं भवति ॥ हीनाधिकमानोन्मानप्रतिरूपकव्यवहारः।
टी०-विरुद्धेत्यादि । विरुद्धराज्यातिक्रमः । अतिक्रमो-व्यवस्थोल्लङ्घनम् । व्यवस्था च परस्परविरुद्धराज्यकृतैव । चशब्दः समुच्चायकः । एष चास्तेयव्रतस्यातिचारः । विरुद्धे हीत्यादि । यस्माद् विरुद्ध राज्ये सर्वमादान-ग्रहणं तृणकाष्ठादेरपि स्तेययुक्तंचौरतया सम्बद्धं भवति । तस्माद् विरुद्धराज्यातिक्रमो न कार्यः ।। हीनाधिकेत्यादि । समस्यातिचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनार्थ, हीनमानव्यवहारोधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहारश्चेति । एतदेव विवृणोति
भा०---कूटतुलाकूटमानवञ्चनादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च ।
टी-कूटतुलेत्यादि । प्रसिद्धटङ्कादिटङ्किता अकूटतेला । ततोऽपरा कूटतुला । एवं मानमपि, आभ्यां कूटतुलाकूटमानाभ्यां वचनं-दम्भनं छलनं, आदिशब्दाद् वचनकार्यक्रियाग्रहणं तैर्युक्तस्तद्युक्तः सम्बद्धःक्रयबद्धः। क्रयो-ग्रहणं विक्रयो-मूल्येन दानं, सर्वमे. तन्न कार्यम् । वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारः, सामान्यवृद्धिप्रयोगोपन्यासः । स्वरपकादि वृद्धयाऽन्यस्य ददाति, सा च वृद्धिरन्याय्या न्याय्या च । तत्रान्याय्या परिहरणीया दशैकादशकप्रभृतिः। यद्यप्युभयरुच्या सा क्रियते तथाप्यतितृष्णाभिभूत इत्यपोधते लोकेन । न्याय्या नूतन( तूना सा ?) आदेयेति ॥
भा०-प्रतिरूपकव्यवहारो नाम सुवर्णरूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पश्चास्तेयव्रतस्यातिचारा भवन्ति ॥ २२ ॥
टी०-प्रतिरूपेत्यादि । नामशब्दः स्वरूपार्थः । प्रतिरूपकव्यवहारस्वरूपमिति । सुवर्णस्य प्रतिरूपक्रिया यादृक् सुवर्ण तादृशमेवापरद्रव्यं वर्णगौरवादिगुणयुक्तं निष्पादयति प्रयोगविशेषात् । तथा रूप्यं-रजतं कतिपयदिवसस्थायीति । आदिग्रहणात तैल-धृत-क्षीर-दधि
१'घटितरूपं ' इति ग-पाठः। २ 'कानि' इति ङ-पाठः। ४-५ 'तुल्या' इति ग-पाठः। ६ ' भूतत आदे० ' इति च-पाठः।
३ 'मानग्रहणं' इति उ-पाठः । 'प्रतिरूपक्रिया' इति काग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org