________________
११६
स्वार्थाविनमसूत्रम्
[ अध्यायः ७
- शीलसप्तकातिचारानभिधाय सम्प्रति मारणान्तिकसंलेखनायाः कति अतिचारा भवन्तीत्याह
सूत्रम् - जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ७–३२ ॥
(टी० - आशंसाशब्दं जीवितमरणाभ्यां सहाभिसम्बध्नन्नाह
भ० - जीविताशंसा मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरणमित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥
टी० - जीविताशंसेत्यादि । संलेखनायाः अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यतीचाराः । जीवितं - प्राणधारणं तत्राशंसा - अभिलाषो यदि बहुकालं जीवेयमिति । वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च लोक श्लाघाश्रवणाचैवं मन्यते - जीवितमेव श्रेयः प्रत्याख्यातानशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते इति । मरणाशंसा त्वेतद्वीपरीता, न कश्चित् तं प्रतिपन्नानशनं गवेषयति न सपर्यति न चाद्रियते न कश्चित् श्लाघते ततस्तस्यैवंविधविचे परिणामो जायते - यदि शीघ्रं प्रियेयाहमपुण्यकर्मेति मरणाशंसा । मित्रानुराग इति । मेद्यन्तीति मित्राणि - स्नेहमत्यन्तं कुर्वन्ति सहजीवितमरणानि तेषु मित्रेषु अनुरागः - स्नेहो यस्तं तादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतिचारः । तथा पुत्रादिष्वपीति योज्यम् । मित्रस्योपकारमकृत्वा पुत्रादीन् वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसङ्गत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः । सुखानुबन्ध इति । अनुभूतप्रीतिविशेषस्मृतिसमाहरणं चेतसि सुखानुबन्धः। निदानकरणमिति । निदानम् - अवखण्डनं तपसश्चारित्रस्य वा, यदि अस्य तपसो समास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्थभरताधिपतिर्महामण्डलिकः सुभगो रूपवानि - त्यादि । एतच्चात्यन्ताधममनन्तसंसारानुबन्धित्वात् परित्याज्यम् । इत्येते पञ्चषष्टिरतिचारा ज्ञेयाः परिहार्याश्च ज्ञात्वेत्थमगारिधर्म एवंप्रकारः । ननु सम्यक्त्वतिचारपञ्चकसम्भवात् सप्ततिर - तिचाराः स्युरिति ? उच्यते - सम्यक्त्वं हि मूलप्रसादपीठरचनावत् आधारभूतमणुत्रतादीनाम्, अतस्तस्याधारत्वान्न व्रतशीलेष्वतिचारग्रहणम् । तदेतेष्वित्यादिनोपसंहरति
भा०- - तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो न्याय्य इति ॥ ३२ ॥
टी० - तस्माद पायदर्शनादेतेषु पञ्चषष्टिष्वतिचारेषु प्रमादो न कार्यः, अप्रमादस्तु न्याय्य इति ॥ ३२ ॥
भा०-- अत्राह-उक्तानि व्रतानि व्रतिनश्च । अथ दानं किमिति । अत्रोच्यतेटी० – अत्राहोक्तमित्यादिना सम्बन्धमाचष्टे । अत्र - व्रतेषु व्रतिषु च व्याख्यातेषु १ ' वाच्यादि ' इति च पाठः । २ ' अनुबन्धभूत स्त्री विशेष०' इति ग-पाठः । ३ 'सम्यगति' इति उमाठः
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org