________________
१०४ • तत्वार्थाधिगमसूत्रम्
[ अध्यायः ७ भाटकशकटाधाजीवः परित्याज्य एवान्यस्मादृते जीवनोपायाद् , बलीवर्दादीनां यथोचितभारादपि किश्चिन्यूनभारारोपणं तृणपानीयाभ्यवहारोऽत्युष्णवेलायां च परिमोक्षणम् । द्विपदानि तु यं भारमात्मनोत्क्षेप्तुमवतारयितुं च शक्नुवन्त्यक्लेशेन तावत आरोपेणापदेशः । तेषामेव चानपाननिरोध इति पञ्चमोऽतिचारः। तेषामिति द्विपदचतुष्पदानामनपाननिरोधोऽप्रयोजनः परिहरणीय एव । सप्रयोजनं तु सापेक्षं कुर्यात् । दुर्विनीतानामपत्यादीनां मेन्दतीक्ष्णाशयानामुंदन्यतां ज्वराधभिभूतानां चान्नपानं निरुणद्धि । स्वभोजनवेलायां तु ज्वरितादेरन्यान् नियमत एव तावद् भोजयित्वा स्वयं भुञ्जीतेत्युपदेशः । अहिंसाव्रतस्थातिचारा भवन्तीत्यव्यतिकरं दर्शयति । समासतोऽणुव्रती सर्वमेव बन्धादि प्रदर्शितमनुकम्पया जहदवश्यंभाविनि प्रयोजनेऽनुतिष्ठनातिचरति स्थूलां प्राणातिपातविरतिमिति ॥ २०॥
स्थूलमृषावादविरतेरतिचाराभिधित्सयेदमाहस्थूलमृषावादविरम- सूत्रम्-मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखणव्रतस्यातीचाराः पञ्च क्रिया-न्यासापहार-साकारमन्त्रभेदाः॥७-२१॥
टी-मिथ्योपदेशः-असदुपदेशः परेणान्यस्यातिसैन्धानं स्वयं वाऽतिसन्धानमन्यस्येति । रहः-एकान्तस्तत्र भवं रहस्य रहस्येनाभ्याख्यानम्-अभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम् । कूटं-असद्भूतं लिख्यत इति लेखः करणं क्रिया कूटलेखक्रिया अन्यमुद्राक्षरबिम्बस्वरूपलेखकरणमिति । न्यस्यते-निक्षिप्यत इति न्यासः रूपकाद्यर्पणं तस्यापहारःअपलापः, योऽत्र द्रव्यापहारः परस्वस्वीकरणलक्षणः स न विवक्षितः, तस्यादत्तादानविषयत्वात, यत् तत्र वचनमपलापकं येन करणभूतेन न्यासोऽपहियते-अपलप्यते तद् वचनं न्यासापहारः । आकारोऽडलिहस्तभ्रूनेत्रक्रियाशिरःकम्पादिरनेकरूपः परशरीरवर्ती, तेन तादृशा आकारेण सहाविनाभूतो यो मन्त्रो-गूढः पराभिप्रायस्तमुपलभ्य सहाकारं मन्त्रमसूययाऽऽविकरोत्येष साकारमन्त्रभेदः प्रकाशनम् । मिथ्योपदेशादयः कृतद्वन्द्वाः पञ्चातिचाराः स्थूलानृतविरतेरिति ।
सम्प्रति भाष्यमनुस्रियते
भा०-एते पञ्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्वतिसन्धानोपदेश इत्येवमादिः॥
३' मौदन्यता' इति ङ-पाठः
१.पणादेशः' इति ड-पाठः। २ मतीक्ष्ण ' इति ङ-पाठः । ४'सन्धापनं इतिस-पाठः। ५'मिशमनमध्यारोपणं' इति ड-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org