________________
• स्वोपज्ञभाष्य-टीकालङ्कृतम्
·
सूत्र २१ ]
१०५
टी० - एते पञ्चेत्यादि । एत इति सूत्रोक्ताः पञ्चैति पञ्चैव, मिथ्योपदेशादय इति नामग्राहमाचष्टे । स्थूलमृषापरित्यागे न असत्यं वक्तव्यमित्यत्र सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्येत्यादिषु पञ्चस्वतीचारेषु मिथ्योपदेशस्तावत् । नामशब्दः क्रमाद्योतकः । प्रमत्तस्य वचनं परपीडाजननम् - वाह्यन्तां खरोष्ट्राः हन्यन्तां दस्यव इति, यथा अर्थः स्थितस्तथा वचनोपदेशः साधुः, तद्विपरीतस्त्वयथार्थवचनोपदेशः यथा परेण पृष्टः सन्देह | पन्नेन तथोपदेश इति । विवादेष्वित्यादि । विवाद: - कलहः तत्रान्यत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसन्धानं - छलनम् । आदिशब्दात् फाणित कद्यूतग्रहणम् । एवमादि : -एवंप्रकारः सर्व एव मिथ्योपदेशोऽवसेयः ॥
भा० – रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रीडासङ्गादिभिः रहस्पेनाभिशंसनम् ॥
टी० - रहस्येत्यादि । रहस्येन कर्मणाऽभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणद्वारेण - यदि वृद्धा स्त्री ततस्तस्यै कथयति - अयं तव भर्ता कुमार्यामतिप्रसक्तः, अथ तरुणीं तत एवमाह-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तस्तथाऽयं खरकामो मृदुकाम इति वा परिहसति । तथा स्त्रियमभ्याख्याति भर्तुः पुरः- पत्नी ते गर्हयत्येवमयं मां रहसि कामगर्दभः खलीकरोतीत्यादि । अन्यस्य वेति । दम्पतीव्यतिरिक्तस्य वकैकस्य पुंसः स्त्रिया वा तत्कालयोग्यम् । रागसंयुक्तमिति दम्पत्या रन्यस्य वा येन रागः - प्रहर्ष उत्पद्यते तेन ताशा रहस्येनानेकप्रकारेण कर्मणाऽभिशंसनमिति । हास्येत्यादि । अभ्याख्याताऽपि परिहासक्रीडानुबन्धात् तादृशं भाषते, नाभिनिवेशेन । हास्यं -परिहासः सैव क्रीडा, आसक्तिः आसङ्गः - अनुबन्धः । आदिशब्दः प्रकारवचनः । हास्यक्रीडाप्रकारैः, अथवा हास्यप्रकारैः क्रीडाप्रकारैर्वेति पृथगभिसम्बन्धः ॥
भा०- कूटलेखक्रिया लोकप्रतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥ २१ ॥
टी० - कूटलेखक्रिया लोकप्रतीतेति अत्यन्तप्रसिद्धा सुज्ञाना, मुद्राक्षरादिविन्यासः कूटतुल्य इति । अत्रापि यत् तद् भूर्जत्वगादिन्यस्तं च वचनं तत् कूटलेख क्रियाशब्देनोच्यत इति सत्यव्रतातिचारः । न्यासापहार इत्यादि । गोपायनाय स्वद्रव्यार्पणमन्यस्य न्यासः तस्यापहारः — अपलापः सुश्लिष्टवचनेन । एतदेव स्पष्टयति-विस्मरणकृतपर निक्षेपग्रहणं विस्मरणेन कृतं परनिक्षेपस्य ग्रहणम् - येन निक्षिप्तानि पञ्च शतानि शतसङ्ख्या विस्मृता, साच,
१ • द्योतनार्थः ' इति ङ-पाठः । २ ' लोके प्रतीता इति कन्ग-पाठः । ३ ' भेदैः' इति ग-पाठः । भेदैव ' इति ग-पाठः ।
૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org