SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सूत्र २० ] न्स्वोपज्ञभाष्य–टीकालङ्कृतम् १०३ डी० - तद्यथेत्यनेन सम्बन्धमाचष्टे । यथा तदेतदतिचांरजातं क्रमेण व्रतादिषु सम्बध्यते संप्रति तथोच्यते । प्राक् तावत् स्थूलप्राणातिपातव्रतमुक्तं तस्यामी पञ्चातिचारा भवन्तीति निर्दिशति स्थूलप्राणातिपातविरमणव्रतस्यातीचाराः पञ्च सूत्रम् — बन्ध-वध-च्छविच्छेदाऽतिभारारोपणाऽन्नपाननिरोधाः ॥ ७–२० ॥ टी० - तत्र बन्धनं बन्धः - संयमनं रज्जुदामका दिभिः, हननं वधः - ताडनं कशादिभिः, छविः - शरीरं त्वग् वा तच्छेदः - पाटनं द्विधाकरणं, भरणं भारः- पूरणं अतीव - बाढ सुष्ठु भारोऽतिभारस्तस्यारोपणं-स्कन्धपृष्ठादिस्थापनमतिभारारोपणम्, अन्नं अशनादि, पानं पेयमुदकादि तयोरदानं निरोधः । सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतेरतीचाराः ॥ भा० - सस्थावराणां जीवानां बन्धवधौ त्वक्छेदः काष्ठादीनां पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं तेषामेव चान्नपाननिरोधः अहिंसात्रतस्यातिचारा भवन्ति ॥ २० ॥ टी० - सस्थावराणामित्यादि । त्रस्यन्तीति त्रसाः - द्वित्रिचतुःपञ्चेन्द्रियाः । तिष्ठन्तीति स्थावराः - स्थानशीला वृक्षादयो यथासम्भवमायोज्याः । द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेषां त्रसस्थावराणां जीवानां बन्धवधौ, तत्र बन्धः शङ्खपिपीलिकादीनामपि सम्भवति । स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुव्रतिना, उत्सर्गतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्यवद्धान्येवाssसते, असम्भवात् तादृशामन्यत्र बन्धः सप्रयोजनः सोऽपि सौंपेक्षः, दयावता नातिगाढमूढग्रन्थिः कार्यो दुर्विनीत पुत्रकदासीदाससेवकादीनां गोमहिषी तुरंगकरिकरभादीनां वा । वधोऽप्येवमेव द्विपदादिविषयो विकल्प्यः । प्राक् तावद् भीतपरिषक्तेनैव भवितव्यमगारिणा । समुत्पनप्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कशादिभिर्वयोऽपेक्षया कर्णवलनचपेटादिभिश्च साधयेत् । तथा निष्प्रयोजनः छविच्छेदः परिहार्य एव, तदाह-त्वक्छेदः काष्ठादीनामिति । काष्ठशब्देन वृक्षपरिग्रहः, वृक्ष आदिरेषामिति, आदिग्रहणाद् भूमितेजः करकद्विपदचतुपदपरिग्रहः । सप्रयोजनस्तु सापेक्षः कर्णपाटनाङ्कनादिरङ्गुलि संदेशक श्रवणनासिकाच्छेदो वा मनाग् भयजननाय तस्करादीनामिति । पुरुषेत्यादि । पुरुषादयः कृतद्वन्द्वा: । आदिग्रहणात् खरकरभमेषच्छागपरिग्रहः । यथासम्भवं वा, एषामतिभारारोपणमतिचारः, उत्सर्गतो १' चारक्रमेण ' इति ङ-पाठः । ४' क्षयोपेक्षया ' इति ङ-पाठः । Jain Education International २ ' व्युत्सर्ग' इति ग-पाठः । For Private & Personal Use Only ३ ' सापेक्षात् ' इति ङ-पाठः www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy