SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १०२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ .. अनभिगृहीता तु भोगसुखपराणामास्तां निःश्रेयससुखं, इदमेव पर्याप्तं यत् प्रकृष्टैश्वर्याभिजनादिषु नीरोगतादियुक्तं जन्मेति । सर्वदेवतासु सर्वपापण्डिषु च तुल्यतामौदासीन्यं भावयतीति । एतत्सम्बन्धेनाह-प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । एषामुक्तलक्षणानां क्रियाक्रियावादिनामज्ञानिकानां च प्रशंसा स्तुतिः अभिष्टवः पुण्यभाज एते सुलब्धमेभिर्जन्म सत्यसन्धाः सन्मार्गदर्शननिपुणा इत्यादिः, संस्तवः-तैः सहैकत्र संवासात् परिचयः परस्परालापादिजनितः। तथा हि-एकत्र वासे तत्प्रक्रियाश्रवणात् तक्रियादर्शनाच असंहार्यमतेरपि दृष्टिभेदः श्रूयते, किमुत संहार्यमतेः । अत एव भगवद्भिः पार्श्वस्थादियथाच्छन्दिकैरपि सार्ध निषिद्धमेकत्र वसनमेकरात्रमपि सम्यग्दृष्टरुत्सर्गात् । तस्मादतीचारावेतौ मलीमसताहेतू तत्प्रशंसासंस्तवौ सम्यग्दृष्टेभ्रंशहेतू वा ।। भा०—(अत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति । अत्रोच्यते-) टी०-प्रसिद्धार्थवशादुपजातसन्देहः कश्चिदत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति ? । अत्रोच्यते-एवं मन्यते "शंसु स्तुतौ" ( पा० धा० ७२८)। प्रशंसनं प्रशंसास्तुतिः। “ष्टुञ् स्तुतौ" (पा० धा०१०४३)। संस्तवः सम्यकस्तुतिरेव । अतस्तुल्यार्थत्वात् प्रश्नयति- का प्रतिविशेष इति । अत्रोच्यते-- ___भा०-ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा। संस्तवस्तु सोपधं मिरुपधं च भूतगुणवचनमिति ॥१८॥ टी०-ज्ञानेत्यादि । ज्ञानम्-आगमः ॥१८॥ सूत्रम्-व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ ७-१९ ॥ भा०-व्रतेषु पञ्चसु शीलेषु च सप्तसु पश्च पश्चातीचारा भवन्ति । यथाक्रममिति ऊर्ध्व वक्ष्यामः ॥ १९ ॥ टी-व्रतेष्वित्यादि सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि व्रतानि तेषु विषयभूतेषु । पञ्चस्वित्यन्यूनानतिरिक्तेषु शीलेषु च सप्तस्विति । चशब्दः समुच्चायकः । सप्तैव शीलानि तेषु च । पञ्च पश्चेति नियमवचनम् । प्रतिव्रतं प्रतिशीलं पश्चातिचारा भवन्ति, न चत्वारः षड् वा । अतिचारपरिगणनं च सुखपरिहारार्थम् । यथाक्रममिति व्यतिकरनिवृत्त्यर्थम् । अन्यथा बन्धवधादयः स्थूलमृषावादनिवृत्तेरप्यतीचाराः स्युः । एवमितरेऽपि व्यतिकरण प्राप्नुयुः। ऊवं वक्ष्याम इति नियमप्रदर्शनं यदुपरिष्टादतीचारजातमभिधास्यामस्तदुक्तेषु व्रतादिषु यथाक्रममिति ॥ १९ ॥ भा०-तद्यथा १.धनुचिह्नान्तर्गतोऽयं पाठो घ-पुस्तक एव । २'भूताभूतगुण' इति घ-पाठः । ३ अयं सूत्र-भाष्य-पाठो नोपलभ्यते' कतमस्यामपि प्रत्याम् , इदमवतरणं तु घ-पुस्तकाधारेण कृतं मया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy