SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सूत्र १८] • स्वोपज्ञभाष्य-टीकालङ्कृतम् अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति ॥ ___ अक्रियावादिनां स्वरूपकथनं नामत एव क्रियते । तद्युक्तानामित्यनुवर्तते । आत्मनास्तित्वादिप्रत्ययापत्तिलक्षणा भवन्त्यक्रियावादिनः । नहि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते"। एतेषां अक्रियावादिनां चतुरशीतिर्भेदाः, तेषां पुण्यापुग्यविवर्जितः पदार्थसप्तकन्यासः तथैव, ८४ भेदाः जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः। असत्वादात्मनो नित्यानित्य भेदौ तु न स्तः। कालादीनां षष्ठी यदृच्छा न्यस्यते, पश्चाद् विकल्पाभिलाप:-नास्ति जीवः स्वतः कालत इत्येको विकल्पः । एवमीश्वरादिभिरपि, यदृच्छावसानाः सर्वे च षड् विकल्पाः। तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश । एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादशैव विकल्पाः। एकत्र द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिकानामिति ॥ कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः ॥ नन्वेवं लघुत्वात् प्रक्रमस्य प्रार बहुव्रीहिणा भवितव्यम् । ततश्चाज्ञाना इति स्यात् । नैष दोषः।ज्ञानाज्जात्यन्तरमेवाज्ञानं, मिथ्यादर्शनसहचरितत्वात् । ततश्च जातिशब्दत्वाद गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति । . अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा आज्ञानिका इति पाठः । अज्ञानिकानां असञ्चिन्त्यकृतवन्धवैफल्यादिलक्षणाः सप्तषष्टिभेदाः, तत्र जीवादीन् नव ६७ भेदाः पदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वमसत्त्वं सदसचमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः । त एते नवसप्तकास्त्रिषष्टिः । उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः । तद्यथा-सत्त्वमसत्त्वं सदसत्वमवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टिर्भवति । को जानाति जीवः सन्नित्येको विकल्पः । एवमसदादयो वाच्याः । उत्पत्तिरपि किं सतः असतः सइसतोऽवाच्यस्येति वा को जानात्येतत् ? न कश्चिदपीत्यभिप्रायः॥ वैनयिकानां चेति । चशब्दः समुच्चये । विनयेन चरन्ति, विनयो वा प्रयोजन और मेषामिति वैनयिकाः । ते चामीष्वष्टासु स्थानेष्वनवधृतलिङ्गचारा३२ भदाः शास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानाः सपर्या विदधति कायेन वाचा मनसा दानेन च । एभिश्चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु । एवं चाष्टकाश्चत्वारो द्वात्रिंशद् विकल्पा भवन्तीति । एवमभिगृहीतमिध्यादृष्टेः सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टयधिकानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy