________________
१०० तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ टी-अन्यदृष्टिरित्यादि । अन्यशब्दः प्रतियोग्यपेक्षः। अन्या चासौ दृष्टिश्चान्यदृष्टिः-अन्य दर्शनम्, अन्यथा पदार्थप्रणयनात् । तदाह-अर्हच्छासनव्यतिरिक्तांदृष्टिमाहेति । सूत्रकारस्यायमभिप्राय:-जिनवचनव्यतिरिक्ता दृष्टिरन्यदृष्टिरसर्वज्ञप्रणीतवचनाभिरतिः। सा च विधा-द्विप्रकारा। तत्राभिमुखं गृहीताऽभिगृहीता दृष्टिः-इदमेव तचामिति बुद्धवचनं सायकणादादिवचनं वा । अनभिगृहीता चेति चशब्दः समुच्चये। अनेकाऽप्याभिमुख्येन गृहीता । सर्वप्रवचनेष्वेव साधुदृष्टिरनभिगृहीतमिथ्यादृष्टिरित्यर्थः । सर्वमेव युक्त्युपपनमयुक्तिकं वा समतया मन्यते मौढ्यात् । तत्र तयुक्तानामित्यादिना अभिगृहीतमिथ्याहष्टेरियत्तां निरूपयति । तया-अभिगृहीतमिथ्यादृष्टया युक्तास्तद्युक्ता मिथ्यादर्शनभाजः। मिथ्यादर्शनं ह्यनेप्रकारमुपजायते मोहवैचिच्यात् नयानामानन्त्यात् , अतः स्थूलतरकतिपयमेवोपदर्शनं क्रियते । तेषां तद्युक्तानां क्रियावादिनामिति । क्रिया कर्बधीना, न को
विना क्रियायाः सम्भवः, तामात्मसमवायिनी क्रियां वदन्ति ये तच्छीक्रियावादिनां लाश्च ते क्रियावादिनः-आत्मास्तित्वादिप्रतिपत्तिलक्षणाः, ते चाशीत्यधि
१८० भेदाः कशतसंख्यया, समधिगम्याश्चामुनोपायेन-जीवाजीवात्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थसाधः स्त्रपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पश्च न्यसनीयाः । ततो विकल्पानुत्पादयति-अस्ति जीवः खतो नित्यः कालत इत्येको विकल्पः । विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवामिलापेन द्वितीयो विकलाः ईश्वरकारणिनः, तृतीयविकल्पः आत्मवादिनः “पुरुष एवेदं सर्व "मित्यादि, नियतिवादिनश्चतुर्थविकल्पः, पश्चमविकल्पः स्वभाववादिनः स्वत एव । स्वत इत्यजहता लब्धाः पश्च विकल्याः। परत इत्यनेनापि पश्चैव लभ्यन्ते । नित्यत्वापरित्यागेन चैते दश विकल्पाः । एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः।
१ स्थापना यथा
जीवः अजीवः आत्रवः बन्धः संवरः निर्जरा पुण्यं पापं मोक्षः
स्वतः
परतः
नित्यः अनित्यः
कालतः ईश्वरतः आत्मतः नियतितः स्वभावतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org