________________
सूत्र १८]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
यमतिक्रामतीति । समयः - सिद्धान्तः, अनतिक्रमणीया वा कार्यव्यवस्था, कोशपानादिवत्, एवमनतिलङ्घनीया या वृत्तिः स समयः, सम्यग्ज्ञानं वा, गत्यर्थानां ज्ञानार्थत्वात् तं समयमतिक्रामति, उल्लङ्घयतीत्यर्थः । कः पुनरसौ समयः १ - " णो इहलोयहयाए" इत्यादि (दशवैकालिके अ० ९, उ० ४ ) केवलं कर्मनिर्जरणायैवेति । तस्मादैकान्तिकात्यन्तिकाव्याबाधसुखहेतुरयं सकलः प्रयास इति अन्यत्र निराकाङ्क्षेण मुनिना भवितव्यमिति ॥
विचिकित्साविचारः भा० - विचिकित्सा नामेदप्यस्तीति मतिविप्लुतिः ॥
टी० - विचिकित्सा नामेत्यादि । मतिविभ्रमो विचिकित्सा । युक्त्यागमोपपन्नेऽप्यर्थे भ्राम्यति मतिः, यथा - अस्य महतस्तपः क्लेशस्य सिकता कणकवलनिःस्वादस्य लोच मौण्ड्यादेरायत्यां फलसंपद् भवित्री, अथ च क्लेशमात्रमेवेदं निर्जराफल विक लमिति १ । नामशब्दो वाक्यालङ्कारार्थः । इदमप्यस्तीत्यादि । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते । कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचिन्निष्फलेति, अत इदमप्यस्तीदमप्यस्तीत्युभयथा दृष्टत्वात् क्रियासामान्यस्य मतेर्विभ्रमो भवति, न च शङ्कातो न भिद्यत इत्याशङ्कनीयम्, शङ्का तु सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्यते, इयं तु क्रियाविषयैव विचिकित्सा । तामेव विवृणोति स्पष्टेनाभिधानेन - मतिविप्लुतिरिति । मतिमिथ्यात्वपुद्गलानुविद्धा प्लवते - भ्रमत्यनवतिष्ठमाना सर्वप्रवचन इति । सर्व एव चैते प्रायो मिथ्यादर्शनभेदाः केनचिद् विशेषेण सिद्ध ( जाय ? ) मानाः सम्यक्त्वातिचारतां प्रतिपद्यन्त इति नातिसूक्ष्मेक्षिका कार्येति । आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यभिहितं तदिहापि सम्भवत्येव । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा - निन्दा, अस्नानात् प्रस्वेदजलक्लिन्नमलत्वाच्च दुर्गन्धिवपुषस्तान् निन्दति - को दोषः स्याद् यदि प्रासुकवारिणाऽङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति । ॥
भा०-- अन्यदृष्टिरित्यर्हच्छासनव्यतिरिक्तां दृष्टिमाह । सा शेषातिचारद्वयम् द्विधा - अभिगृहीता चानभिगृहीता च । तद्युक्तानां क्रियावादिनाम क्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति ॥
१ छाया-
लोकार्थम् ।
२ ० मप्यस्तीदमपीति मति०' इति घ-पाठः ।
(
३ ' फलवद्' इति ग-पाठः । इति क ख - पाठः । ५ ' कुर्वतामत्रत ( ? ) ' इति ङ-पाठः । ६०ज्ञानिकानां प्रशंसासंस्तवाविति' पाठचिन्तनीयः ।
९९ :
Jain Education International
For Private & Personal Use Only
>
न च शङ्का इति क ख ग
www.jainelibrary.org