________________
तत्वार्थाधिगमसूत्रम् -
एकस्मिन्नर्थे संदिग्घे प्रत्ययोऽर्हति हि नष्टः । मिथ्यैव दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥ २ ॥”
3
तस्मान्मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यम् । संशयास्पदमपि सत्यमेव, सर्वज्ञाभिहितत्वात् तदन्यपदार्थवत् मतिदौर्बल्यादिदोषात् तु कार्त्स्न्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन । यथाऽऽह ( भगवतीवृत्तौ ) -
44
न हि नामानाभोगछद्मस्थस्येह कस्यचिन्नास्ति । यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म ॥ १ ॥ "
Jain Education International
काङ्क्षास्वरूपमभिधातुकाम आह—
भा०-- - ऐहलौकिक पारलौकिकेषु विषयेष्वाशंसा काङ्क्षा । काङ्क्षायाः स्वरूपम् सोऽतिचारः सम्यग्दृष्टेः । कुतः १ । काङ्क्षिता ह्यविचारितगुणदोषः समयमतिक्रामति ॥
टी० – ऐहलौकिकपारलौकिकेष्वित्यादि । इहलोके भवा ऐहलौकिकाः शब्दादयो विषयाः । सुगतेन हि भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानान्नपानाच्छादनशयनीयादिसुखानुभवद्वारेण । सोऽपि हि घटमानक एव न दूरापेतः । तथा परिव्राजक भौतब्राह्मणादीनामैहिकान् विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्ते, साधीयान् धर्मोपदेशः । तथा परलोके भवाः पारलौकिकाः- स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयाः प्रकर्षापकर्षवृत्तित्वाद् अन्यान्यदर्शने सति ग्राहोऽभिलाषस्तद्विषयः, आशंसा प्रीतिरभिलाषः काङक्षेत्यनर्थान्तरम् दर्शनेषु वा । तथाचागमे ( आवश्यकसूत्रनाम्नि चतुर्थे विभागे ) – ““कंखा . अण्णण्णदंसणग्गाहो "| प्रस्तुतोऽतिचारस्तच्छब्देन तस्य परामर्शः । सोऽतिचारो मलीमसताध्यामलता । कस्य ? सम्यग्दृष्टेरित्याह । न निर्मूलमेव सम्यक्त्वं भवति, मलिनमात्रता तस्य जायते इति । कस्मात् पुनः काङ्क्षा अतिचार इति प्रश्नेनोपक्रमते कुत इति । एवं मन्यते प्रष्टा - जिनवचनं श्रद्धत्त एव, न न श्रद्धत्ते, अश्रद्दधतश्च मिथ्यादर्शनम् । आचार्यस्त्वाह - काङ्क्षिता हीत्याहि । यस्मादन्यशासन तत्त्वाभिलाषी काङ्क्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषः सांसारिक सुखमल्पकमभिलषत्यैहलौकिकं पारलौकिकं वा विनश्वरमवसानकटुकं दुःखानुविद्धमुद्धतकषायकलुषितत्वात् संसारानुबन्धि, सर्वं चैवंविधं भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानं च भावतो दूषयति सम्यक्त्वं, सिद्धान्तव्यवस्थोल्लङ्घनात् । तदाह-सम
१ ' ० लौकिकेषु विषये ० ' इति घ-पाठः, ख- पाठस्तु '० लौकिकविषये ०' इति ।
२ छाया
३ ' श्वयत' इति क-ख-पाठः ।
काङ्क्षा अन्यान्यदर्शनप्राहः ।
[ अध्यायः ७
For Private & Personal Use Only
www.jainelibrary.org