________________
सूत्र १८]
स्त्रोपज्ञभाष्य टीकालङ्कृतम् टी-शङ्केत्यादिकया। अतिचारो व्यतिक्रम उल्लञ्चन(स्खलन)मित्येकोऽर्थः । अधिगतेत्यादि । अधिगतं-सुपरिज्ञातं जीवाजीवादितत्त्वं यस्य तस्याप्येवंविधस्य । भगवत इति धर्मलक्ष्मीयशोभाजः श्रीवर्धमानस्य शासन-प्रवचनं अभिप्रपन्नस्य-अभिमुखं भावतः, प्रतिपन्नस्येतियावत् । असंहार्यमतेरिति । संहार्या-क्षेप्या परकीयागमप्रक्रियाभिरसमञ्जसाभिर्बुद्धिर्यस्यासौ संहार्यमतिः, न संहार्यमतिरसंहार्यमतिर्भगवदर्हत्प्रणीततत्त्वश्रद्धा तया (१) तस्य सम्यग्दृष्टेरहमोक्तेषु जीवादिष्वर्थेषु यथाऽऽत्मा लोकाकाशतुल्यप्रदेशः गतिस्थितिहेतू जीवपुद्गलानां धर्माधर्मावपेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तसूक्ष्मः, तेषु । अत्यन्तग्रहणाल्लिङ्ग(लिङ्गागम?)गम्येषु । यतः परमाणवः सूक्ष्माश्चातीन्द्रियाश्च, तथापि लिङ्गेन-कार्येण आगमेन वाऽवगम्यन्ते, नैवं संख्येयप्रदेशादय इति, अत्यन्तसूक्ष्माः समुल्लचितचक्षुरादिविषयभावाः, केवलागमग्राह्योष्विति, नाप्रमाणकास्तेऽत्यन्ताभाववदिति दर्शयति, केवलमेकं मत्यादिसहायभावविनिर्मुक्तमात्यन्तिकज्ञानावरणक्षयप्रभेद(भव)मात्मस्वरूपं सकलज्ञेयग्राहि यत् ज्ञानं तेन गृह्यन्ते, आगमो-द्वादशाङ्गं प्रवचनमहत्प्रोक्तार्थ गणधरप्रत्येक बुद्धस्थविरविरचितसूत्रप्रवन्धम् । यदाह
(“अर्हत्प्रोक्तं गणधरहब्धं प्रत्येकबुद्धदृब्धं वा।
स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥") " श्रुतकेवली च तस्मादधिगतदशपूर्वक तौ स्थविरौ ।
आताज्ञाकारित्वात् तु सूत्रमितरत् स्थविरहब्धम् ॥ गीतार्थः संविग्नश्चरणस्थो नोपदेशने शक्यः (भाज्यः१)।
भाज्यः स एव सद्भावदेशने मन्दवृत्तश्चेत् ॥" अत आगमपेरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति एवं स्यादसंख्येयप्रदेश आत्मा, अथ निष्प्रदेशो निरवयवत्वान्नैवं स्यादिति वा, सेयमेवंविधा शङ्का । तथा चागमः" संसयकरणं सका" (आव०) मिथ्यादर्शनं च त्रिविधम्, अभिगृहीतानभिगृहीतसंशयभेदात, तत्र संशयो मिथ्यात्वमेव, यथाऽऽह (सङ्ग्रहण्याम् )
“पयमक्खरं च एकंपि जो न रोएति सुत्तनिहिडं। ,
सेसं रोयंतोवि हु मिच्छद्दिडी मुणेयन्वो ॥१॥" तथा-" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः।
मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥१॥ 'यतः परमाणवः सूक्ष्माश्चातीन्द्रियाश्च' इति क-ख-ग-प्रतीनामधिकः पाठः, परन्तु स पाठः प्रामादिक इति प्रतिभाति । २ 'भावादिति सूक्ष्ममात्यन्तिक' इति ङ-पाठः। ३ 'पूर्वधरश्च तौ' इति ख-पाठः। ४ 'मन्ददृश्वत्वात् । इति -पाठः । ५ 'परिझेयेषु' इति उ-पाठः । ६ संशयकरणं शक्का । छाया-पदमक्षरं चैकमपि यो न रोचते सत्रनिर्दिष्टम्।.
शेषं रोचमानोऽपि खलु मिथ्यादृष्टिातव्यः ॥
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org