________________
९४
तत्वार्थाधिपमसूत्रम् ..
[अभ्यायः ७ टी-अतिथिसंविभागो नामेत्यादि । अतिथिर्मोजनार्थ भोजनकालोपस्थायी,स्वार्थ निर्वर्तिताहारस्य गृहिवतिनः साधुरेवातिथिः, तस्य संविभागोऽतिथिसंविभागः । संविभागग्रहणात् पश्चात् कर्मादिदोषपरिहारः । अत्र च पाषधोपवासपारणकाले नियमः-अदत्त्वा साधुभ्यो न स्वयं पारणीयमिति । अन्यदा तु दत्त्वा वा पारयति पारयित्वा वा ददातीत्यनियमः। तच्च देयं देशकालापेक्षं सर्वमेवोद्मादिविशुद्धं मोक्षफलमभिलषता संयतासंयतेन कदाचित्, कचिदाधाकर्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रवचनस्वभावत्वात् भगवदहेत्प्रणीतप्रवचनस्येति । नामशब्दः पूर्ववत् । न्यायागतानामिति । न्यायो द्विजक्षत्रियविदेशूद्राणां च स्ववृत्त्यनुष्ठानम् । स्ववृत्तिश्च प्रसिद्धव प्रायो लोकाहेर्या, तेन तादृशा न्यायेनागतानाम् । कल्पनीयानामिति । उद्गमादिदोषवर्जितानामशनीयपानीयखाद्यस्वाद्यवस्त्रपात्रप्रतिश्रयसंस्तारभेषजादीनाम् । द्रव्याणामिति पुद्गल विशेषाणाम् । देशो नानात्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिमाय । कालः सुभिक्षदुर्भिक्षादिः। श्रद्धा विशुद्धश्चित्तपरिणामः पात्राद्यपेक्षः। सत्कारोऽभ्युत्थानासनदानवन्दनानुवजनादिः।क्रमः परिपाटी। देशकालापेक्षो यः पाको निर्वृत्तः स्वगेहे तस्य पेयादिक्रमेण दानम् । यो वा यत्र देशे काले वा यः क्रमः प्रसिद्धस्तैर्देशादिभिः । उपेतशब्दः प्रत्येकमभिसम्बध्यते । परयेति प्रकृष्टया आत्मनोऽनुयहबुद्धया ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनीयाद्याददत इति । अतः संयता मूलोत्तरसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति ॥१६॥
किश्चान्यदित्यनेनाभिसम्बध्नाति । सम्यक्त्वसम्पन्नोऽणुव्रतधरः शीलसम्पदा युक्तः किश्चान्यदनुपालयेदित्याह
सूत्रम्-मारणान्तिकी संलेखनां जोषिता ॥७–१७॥ टी०—यद्यपि प्रतिक्षणमावीचिकमरणमस्ति तथापि न तद्ग्रहणं, किं तर्हि ? सर्वायुषः क्षयो मरणं, मरणमेवान्तो मरणान्तः-मरणकालः। प्रत्यासन्नं मरणमितियावत् । जन्मनः पर्यवसानं तत्र भवा मारणान्तिकी " बह्वच " (पा० अ० २, पा० ४, सू० ६६) इति घञ्। संलेखनाभिसम्बध्यते। संलेख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः । यथोक्तमार्ष
४॥ चत्तारि विचित्ताई विगैतीनिजहिताई चतारि।
एंगतरमायाम अविगिविगिढकोडिक्क ॥ १॥" १ 'केचित् ' इति ङ-पाठः। २ वैश्य ' इति ङ-पाठः। ३ ' सानात् ' इति ङ-पाठः । ४ छाया
चत्वारि (वर्षाणि) विचित्राणि (तपांसि ) विकृतिनिर्मूढानि चत्वारि ।
___ एकान्तरमाचाम्लं (द्वे) अविकृष्टं (एकं ) विकृष्टं (एकं) कोय्या (एकम् ) ॥ १॥ ५' विज्जीवयाइ ' इति ङ-पाठः। ६ 'एगुत्तरयोग ' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org