________________
सूत्रं १६]
स्वोपक्षमाष्य-टीकालङ्कृतम् खण्डम् । आदिग्रहणाद् द्विदलवस्त्रकम्बलीपरिग्रहः। अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य विरचय्य प्रतनुनिद्रेणानुष्ठेयः। अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्ठेयः तदाहस्थानमृवलक्षणं कायोत्सर्गाख्यम्, वीराणां संहननयुक्तानामासनं जान्वधोभागतुल्यमश्चिकादिनिविष्टस्यापनीताधोमश्चिकस्य तथाऽवस्थान वीरासनमुच्यते । निषद्या समस्फिपनिवेशनं पर्यङ्कबन्धादि । वाशब्दो विकल्पार्थः । स्थानादि वा शयनं वा । अन्यतममिति यदेवाभ्यस्तम्, आस्थायेति परिगृह्य । धर्मस्तु श्रुतचरणभेदाद् द्विधा । तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः, चरणधर्मो महाव्रताणुव्रतोत्तरगुणभेदस्तद्विषयं जागरणं जागरिका। धर्मे जागरिका। न चातेरौद्रविकथाद्याश्रिता जागरिकेति । “इच्छा" (पा० अ०३, पा०३, सू० ३०१) इत्यत्रसूत्रे जागर्तेरिकारो वेत्युक्तं जागो जागरेतिरूपद्वयसिद्धयर्थम् । तत्र जागरैव जागरिका । स्वार्थे कविधानम् । एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति ॥
भा०--उपभोगपरिभोगव्रतं नाम अशनपानखाद्यस्वाद्यगन्धमाउपभागपारभाग ल्यादीनां प्रावरणालङ्कारशयनासनगृहयानवाहनादीनां बहसाव्रतस्य लक्षणम्
वद्यानांच वर्जनम(ल्पसावद्यानाम)पि परिमाणका(क)रणमिति॥ टी०-उपभोगपरिभोगशब्दार्थों व्याख्यातौ । तच द्विविधं व्रतं भोजनकर्मविषयत्वात् । तत्राशनान्मांसानन्तकायादेर्निवर्तते, पानतो मद्यमधुसुरामांसरसकादेः, खाद्या बहुबीजसत्वौदुम्बरफलादेः, स्वाद्यान्माक्षिकान्मधुप्रभृतेः। एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसम् । कमतः पञ्चदशकमादानान्यङ्गारकरणादीनि अल्पसावधजीवनोपाया वे तत्प्रवृत्तौ ज्ञानावरणादिकर्मणां हेतुत्वादानात् कर्मादानादीन्युच्यन्ते । तानि चाङ्
गारवनशकटभाटकस्फोटनदन्तलाक्षारसविषकेशवाणिज्यायन्त्रपीडानिर्लापञ्चदश कर्मादानानि छनदवदानसरोहदादिपरिशोषणासतीपोषणकर्माणि । प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां, न परिगणनमित्यागमार्थः ॥ ननुच भाष्यकृता न कर्मादानग्रहणमकारि साक्षात् । सत्यम्, आदिग्रहणात् तु व्याख्येयानि, प्रवचने तथोपदिष्टत्वात् । गन्धमाल्यादीनामिति । आदिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणम् । समासतो यानि बहुसावद्यानि तानि यावज्जीवं वर्जनीयानि, अल्पसावद्यानां तु कर्मणां कार्यम् । शेषाणि प्रत्याख्येयानीति ॥
भा०-अतिथिसंविभागोनाम न्यायागतानां कल्पनीयानाअतिथिसविभागस्य मन्नपानादीनां च द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं परव्याख्या
याऽऽत्मानुग्रहबुद्धया संयतेभ्यो दानमिति॥१६॥किश्चान्यदिति
१'महाव्रतोत्तर' इति ङ-पाठः। २'आच्छादनप्रावरणा' इति घ-पाठः। ३धनुश्चिद्वितोऽयं घ-पाठः । ४'भावतः प्रवृत्तो' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org