________________
९२ तत्त्वार्थाधिगमसूत्रम् .
[अध्यायः ७ इति न करोमि न कारयामि तस्य विकल्पस्य प्रत्याख्येयो यः सावधयोगः स सर्व इत्यनेन विशेष्यते, न पुनः सामान्येन सावद्ययोगविक्षेपणमिति, असम्भवात् तस्यागारिण इति ॥
भा०-पौषधोपवासो नाम पौषधे उपवासः। पौषधः पर्वेत्यपौषधलक्षणम् नर्थान्तरम् । सोऽष्टमी चतुर्दशी पञ्चदशीं अन्यतमा वा
तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालङ्कारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारकमास्तीर्य स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति ॥ ____टी०-पौषधोपवासो नामेत्यादिना पौषधस्वरूपं निरूपयति । रूढ्या पौषधशब्दः पर्वसु वर्तते। पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वात् । तत्र पौषधे पर्वणि उपवासः पौषधोपवासः। त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः “साधनं कृते"ति समासो योगविभागेन वा सप्तमीति समासः। नामशब्देन तु वाक्यालङ्कृतिः। तस्य वा नियमविशेषस्येदं नाम पौषधोपवास इति सोऽयमाख्याते पौषधे उपवास इत्यादिना भाष्येण । अनर्थान्तरमित्येकार्थता । सोऽष्टमीमित्यादि । स पौषधोपवास:-उभयपक्षयोरष्टम्यादितिथिमभिगृह्य-निश्चित्य बुद्धया अन्यतमां चेति प्रतिपदादितिथिम् , अनेन चान्यासु तिथिषु अनियमं दर्शयति, नावश्यंतयाऽन्यासु कर्तव्यः। अष्टम्यादिषु तु नियमेन कार्यः। चतुर्थाधुपवासिनेति कर्तृलक्षणा तृतीया । पृथग्जनस्यानियतानि भक्तानि मुमुक्षूणां सकृद् भोजनं, मध्यमजनस्य भक्तद्वयं, तत्र मध्यमा प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना। अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः। द्वितीयेऽहनि भक्तद्वयच्छेदः। तृतीयेऽहनि चतुर्थभक्तकाले
मुक्त इति चतुर्थभक्तमुच्यते । एक उपवासः, कदाचिदुत्तरपदलोपाचतुर्थभक्तस्यार्थः चतुर्थभक्तमेव चतुर्थ तदाद्युपवसति यस्तच्छीलश्च स चतुर्थाधुपवासी।
आदिग्रहणात् पूर्वगणितयैव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणम् । स्नानमुदकेन, अनुलेपनं चन्दनकुङ्कुमकस्तूरिकादिना, गन्धाः पक्त्रिमादिभेदेनानेकविधाः, मालाई माल्यं-पुष्पप्रकरः, अलङ्कारो वस्त्रकेशकटकादिः । व्यपगताः स्नानादयो यस्येति । न्यस्तो-निक्षिप्तः सर्वसावद्ययोगो येन। सर्वशब्दः पूर्ववत् । कुशास्तृणजातिरशुषिरा कुन्थ्वाद्यादीनामनाश्रयास्वत्कृतःसंस्तरः कुशसंस्तरः, संस्तीर्यतेऽसाविति संस्तरः। “अध्यायन्याय०" (पा० अ० ३, पा० ३, सू० १२२) इत्यत्र सूत्रे चशब्दोऽनुक्तसमुच्चयार्थो व्याख्यातः । ततश्च "पुंसि संज्ञायां०" (पा० अ० ३, पा० ३, सू०११८) इति घप्रसङ्गे घञ् , “ कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू०११३) इति वा, फलकमप्यशुषिरं चम्पकाशोकादिपट्ट
'पौषधोपवासः' इत्यधिको घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org