________________
सूत्र १६ ]
.स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-अनर्थदण्डो नामेत्यादि । अर्थः-प्रयोजनं गृहस्थस्य क्षेत्र-वास्तु-धन-शरीरफ रिजनादिविषयस्तदर्थ आरम्भो-भूतोपमर्दोऽर्थदण्डः । दण्डो निग्रहो यातना विनाशनमिति पर्यायाः। अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः । स चैष भूतविषय उपमर्दलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते । तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः, अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता विनैव कारणेन भूतानि दण्डयति, यथा शतधारकुठारेण प्रकृष्टस्तरुस्कन्धशाखादिषु प्रहरति । कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः । न च तद्व्यापादने किश्चिदतिशयोपकारि प्रयोजनमस्ति येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः पापादानहेतुरिति प्रेक्षापूर्वकारिणा प्रोज्यः । नामशब्दः पूर्ववत् । अनथेदण्डस्वरूपनिरूपणायाह-उपभोगेत्यादि । उपभुज्यत इत्युपभोगः । उपशब्दः सकृदर्थे । सकृद् भोग उपभोगः पुष्पाहारादेः । अथवाऽन्तर्भोग उपभोग आहारादिः। अत्रान्तर्वचन उपशब्दः । परिभुज्यत इति परिभोगः। परिशब्दोऽभ्यावृत्तौ वर्तते । पुनः पुनर्भोगो वा वस्त्रगन्धमाल्यालङ्कारादेः। समासतः सर्वमुपयुज्यमानं शरीरादीनामगारिणो वतिन उपकारकोऽथेः, तस्मादुपकारकादोंद व्यतिरिक्तोऽनुपकारकत्वात् अनर्थः तदर्थ इत्यनुपकारको योऽर्थः तदर्थो दण्डो भूतोपमदेलक्षणोऽनर्थदण्डः धर्मार्थकाममोक्षाणामन्यतमस्याप्यभावात् , अतस्तस्माद् विरतितमगारिणो भवति ॥ ननु च व्रतग्रहणाद् विरतिशब्दार्थो गम्यत एव, किमर्थं विरविनहणम् । । उच्यते-परिजिहीर्षत आदराधानार्थ, दण्डप्रवृत्तो हि निष्कारणमेव पापमुपादते । दूरतश्चायमत आहतः कथं नाम परिहरेदिति विरतिग्रहणम् ॥
- भा०-सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोग
सामायिकलक्षणम् निक्षेपः॥
टी०-सामायिकं नामेत्यादि । सामायिकमिति समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो-लाभः-प्राप्तिः । समस्यायः समायः प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचरणपर्याययुज्यते स एवं समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम् । समाय एव वा सामायिकम् । नामशब्दोऽलङ्काराः। अभिगृह्य कालमिति कालं नियम्य यावत् चैत्यानि पर्युपासे साधून वा अन्यद् वा किश्चिदुपलक्षणमास्थाय कालस्य गोदोहादि स्थिरतरचित्तवृत्तिगृहपोषधशालादिषु निव्योपारः सन् सर्वत्र सामायिकमातिष्ठति, अमुना विधानेन करोमि भदन्त ! सामायिकं द्विविधं त्रिविधेनेति । प्रतिपद्य चैवं ततश्चैत्यादि पर्युपास्ते । निक्षिप्तसावधयोगः । अवद्य-गर्हित पापम् । सहावद्येन सावद्यः योगो-व्यापार: कायिकादिस्तस्य सावद्यव्यापारस्य निक्षेपः-परित्यागः प्रोज्झनं न करोमि न कारयामि मनोवाक्कायैरिति भावस्तद्विशेषणम् । सर्वशब्दः प्रकृतविकल्पापेक्षया, अतः सर्वसावधयोग
१ 'आराधनार्थ ' इति ङ-पाठः । २ 'प्रतिक्षापू.' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org