SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ तस्वार्थाधिगमसूत्रम् .. [अध्यायः ७ सावधः-सपापो योगो-व्यापारः कायादिकः तेन चैवंपरिमाणात् परतो निवृत्तेन निक्षिप्तोनिरस्तो भवतीति महती गुणावाप्तिः ॥ सम्प्रति क्रमनिर्दिष्टं देशव्रतमुच्यते-अत्राह-वक्ष्यति भवान् देशव्रतम् । पारमार्षवच नक्रमः कैमर्थ्याद भिन्नः सूत्रकारेण । आर्षे तु गुणव्रतानि क्रमेणाक्रमभेदे हेतुः दिश्य शिक्षावतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा । तत्रायमभिप्रायः पूर्वतो योजनशतपरिमितं गमनमभिगृहीतम् । न चास्ति सम्भवो यत प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति देशे-भागेऽत्रस्थान प्रतिदिन प्रतिप्रहरं प्रतिक्षणमिति देशव्रतमिति सुखावबोधार्थमन्यथा क्रमः ॥ सम्प्रति भाष्येण स्पष्टयत्येनमेवार्थम् भा०-देशव्रतं नाम अपवरकगृहग्रामसीमादिषु यथाशक्ति देशघ्रतव्याख्या प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वसावद्ययोग निक्षेपः ॥ टी-देशव्रतं नामेत्यादि । दिक्परिमाणस्यैकदेशो देशः तद्विषयं व्रतं देशवतंदेशनियमः । तच्च प्रयोजनापेक्षमेकादिदिक्कं सर्वदिक्कं वा । नामशब्दो वाक्यभूषार्थः। देशनिरूपणार्थमाह-अपवरकेत्यादि । अपवरको विशिष्ट एव गृहैकदेशः तत्रैव नियमःप्रदोषादिकाले आ प्रभातसमयादाक् न मया निर्गन्तव्यममुतो देशाद् अन्यत्रानाभोगादिभ्य इति । एवं कुड्यमर्यादावच्छिन्नाद् गृहात् तथा वृत्तिपरिक्षेपावच्छिन्नाद् ग्रामात् सीमावच्छेदाच । आदिग्रहणं नगरखेटखवेटविषयखण्डजनपदार्थम् । एतच्च प्रदर्शनमात्रम् । एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तुं च तत्र विवक्षितदेशात् परतो निवृत्तिरित्येवमस्यैवार्थस्य प्रतिपादनार्थमिदमाह-यथाशक्तीत्यादि । यथाशक्तीति करणापेक्षया यावति देशे प्रविचारो-गमनादिक्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारनियमाथे इतियावत् । ततश्च तत्परतः प्रविचारजनितः स्थूलसूक्ष्मभूतग्रामोपमर्दपरिहारः कृतो भवतीति दर्शयति-तत्परतश्चेत्यादिना प्राग् व्याख्यातार्थमेतद् भाष्यमिति ॥ भा०-अनर्थदण्डो नाम उपभोगपरिभोगावस्यागारिणों अनर्थदण्डव्याख्या वतिनोऽर्थः । तद्व्यतिरिक्तोऽनर्थः । तदर्थो दण्डोऽनर्थदण्डः। तद्विरतिव्रतम् ॥ ३. 'वा तत्र' इति १ 'गेहात्' इति ग-पाठः । २ 'कर्पट ' इति उ-पाठः, 'कर्बट ' इति तु क-पाठः। अ-पाठः। ४ 'सूक्ष्मस्थूलभूत' इति उ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy