________________
सूत्रं १६]
स्वोपज्ञभाष्य-टीकालङ्कृतम् न्येव व्रतानि शिक्षापदव्रतानीति । गुणव्रतानि तु न प्रतिदिवसग्राह्याणि, किन्तु सकृद्ग्रहणान्येव । गुण्यन्ते-संख्यायन्त इति गुणा दिगादयः। दिशोऽपरिमाणाः पूर्वादिका दश, तासामिष्टसंख्यावच्छेदेन परतः प्रत्याख्यानमातिष्ठते । एवमुपभोगपरिभोगं परिमितसंख्यया परिमाणेऽवस्थापयति । शेषं प्रत्याचष्टे । तथाऽनर्थदण्डमुपभोगमात्रव्यतिरिक्तस्य सकलस्य निवत्तिमभ्युपैति, परिगणयतो गुणव्रतसंख्या, एवमेतानि शिक्षावतादीनि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि अणुव्रतपरिवृद्धयर्थमेव भावनीयानीति ॥
भा०-एभिश्च दिव्रतादिभिरुत्तरव्रतैः सम्पन्नोज्गारी व्रती दिग्वतव्याख्या भवति । तत्र दिगवतं नाम तिर्यगूलमधो दशानां दिशां
यथाशक्ति गमनपरिमाणाभिग्रहः ॥ ___टी-एभिश्चेत्यादि भाष्यम् । एभिरिति दिगादिवतैः । आदिग्रहणात् शिक्षापदवतः चशब्दादणुव्रतैश्च सम्पन्नोऽगारी व्रती भवतीति । कानि पुनस्तानि दिगादिवतानीत्याह-तत्र दिग्व्रतं नामेत्यादि । तत्र-तेषुत्तरगुणेषु सप्तसु दिव्रतं नाम, दिशोऽनेकप्रकाराः शास्त्रेऽभिहिताः । तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः तदनुक्रमेण, दिशां सम्बन्धि दिक्षु वा व्रतम्-एतावत्सु पूर्वादिदिग्भागेषु मया गमनाउनुष्ठेयं, न परत इति । नामशब्दो वाक्यालङ्कारार्थः । एतदेव स्पष्टतरं विवृणोति-तिर्यगूर्वमित्यादिना । तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक्, अध इति दशमी। एवमासा दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रह इति । यथाशक्तीति यथासामर्थ्य कायापेक्षया गमिक्रियादिपरिमाणम्-एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्वे. दक्षिणेनेत्यादि । अभिग्रहोऽभिमुखं ग्रहणम् । आभिमुख्यं तु निश्चित्य ज्ञानेन गुणदोषाविति गृह्णाति ।
ततः को गुणोऽवाप्यत इत्याहभा०-तत्परतश्च सर्वभूतेष्वर्थतोऽनयंतश्च सर्वसावद्य(योग)निक्षेपः ॥
टी-तत्परतश्चेत्यादि । गुणमुपदर्शयति प्रष्टुः । चशब्दः क्रमावद्योतनार्थः । तसाद्-गमनपरिमाणात् परतः सर्वभूतेषु-स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थ:-प्रयोजनमतिशयोपकारि, सत्यपि तस्मिन् न तत्र गमनाद्यनुतिष्ठति, अतस्तत्रत्यभू. तानामनुपमर्दः । अर्थतोऽनयंतश्चेति । चशब्दः समुच्चये । अनर्थोऽप्रयोजनं विना प्रयोजनेन भूखननोल्लिखनजलावगाहवनस्पतिच्छेदककलासादिव्यापादनादिरनेकविधः । स एष सर्वः
१'पातः' इति उपाठः । २ मधो वा दशाना ' इति घ-पाठः। ३ 'शक्तिपरिणामा' इति उ-पाठः । ४'शयोककारि' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org