________________
४८
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ ____टी-अणून्यस्य व्रतानीत्यणुव्रत इत्यादि वृत्त्याऽर्थ दर्शयति अनेन बहुव्रीहिवाक्येन । अनि देशविषयाणि न समस्तविषयाणीति प्रतिपादयति । अस्येत्यन्यपदार्थप्राधान्यख्यापनम् । व्रतशब्दः प्राग् व्याख्यातो निवृत्तिपर्यायः । तदेवमित्यादिना निगमयति सामान्यार्थेन शब्देनानेकभेदसङग्राहिणा । यत्तदोर्नित्यसम्बन्धात् यस्मादणूनि व्रतान्यस्य तस्मादेवम्-उक्तेन प्रकारेणाणुव्रतधरः प्रतिपन्नाणुव्रत इति । धरणं यथागृहीतव्रताविस्मरणं वक्ष्यमाणातीचारपरिहारेण चानुपालनम् । अत एवंविधः श्रावक इति अगारी व्रती च भवति । पर्यायकथनं वेदं भेदबहुत्वप्रतिपादनार्थम् । एकादशोपासकभेदाः सम्यग्दर्शनप्रभृतयः सकलश्रावकभेदाधारभूता इति । आगमश्च
""दंसणवयसामाइयपोसहपडिमाअबभसच्चित्ते । आरंभपेसउद्दिवज्जए समणभूए य ॥१॥"
-आवश्यकवृत्तौ (पत्रा० ६४६) दर्शनप्रतिपत्तेरारभ्य स्वशक्त्यपेक्षया व्रतधारणादिष्वध्यवसायक्रियाविशेषेषु प्रवर्तते प्रवर्धमानश्रद्धः श्रमणभूतान्तेषु स्थानेष्वित्येवमणुव्रतोऽगारी व्रती भवतीति ॥ १५॥
किश्चान्यदित्यनेन प्रस्तुतस्यार्थस्य सम्बन्धं कथयति, गृहीतमिदमुक्तलक्षणान्यणुत्रतानि धारयति गृहीति । किञ्चान्यत् प्रतिपाद्यते( ? आह)
सूत्रम्-दिग्देशानर्थदण्डविरतिसामायिकपौगुणशिक्षात्रता- षधोपवासोपभोगपरिभोगपरिमाणातिथि
संविभागवतसम्पन्नश्च ॥ ७-१६ ॥ टी०-कृतद्वन्द्वा दिगादयस्तैः सम्पन्नः-समृद्धः संयुक्तः । चशब्दः समुच्चयवचनः । प्रतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाळपादनाय शीलोपदेशः । शीलं च गुणशिक्षाव्रतम् । तत्र गुणवतानि त्रीणि-दिग्भोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां भावनाभूतानि । यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद् गृहीतानि यावज्जीवं भावनीयानि । शिक्षापदव्रतानि-सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि । प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्येते इतियावत् । पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवससमाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शिक्षा-अभ्यासस्तस्याः पदानि-स्थानानि अभ्यासविषयस्ता
धिकारः
१ छाया
दर्शनव्रतसामायिकपौषधप्रतिमाऽब्रह्मसचित्तानि ।
आरम्भप्रेष्योद्दिष्टवर्जकः श्रमणभूतश्च ॥ २'म्यादिपर्वतिथिः' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org