________________
सूत्रं १५ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
दख
किं तर्हि ? कुतश्चिदेव प्राणिघातात् । यत् एकेन्द्रियाः पृथिव्यादिकायाः पश्च प्रायो दुष्परिहाराः सद्मवासिनाम् । स्थूलाश्च द्वित्रिचतुःपञ्चेन्द्रियाः । स्थूलत्वं सकललौकिक जीवत्वप्रसिद्धेः सूक्ष्मत्वं विगानेन जीवत्वप्रसिद्धेर्लोके । तत्रापि सङ्कल्पजं प्राणातिपातं प्रत्याख्याति, न आरम्भजम् । आरम्भो हि हलदन्तालखनन सुनापञ्चकप्रकारः । तत्रावश्यंतयैव शङ्खणकपिपीलिकाधान्यग्रगृहकारिकामण्डूकादयः संघट्टपरितापापद्रवणक्रियाभिः स्पृश्यन्ते । तस्मान्न समस्ति प्रत्याख्यानं तंद्विषयम्। संकल्पजस्य तु संभवति, मनसा संकल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताद्यर्थं न हन्मीति, असुमतो निवर्तते सङ्कल्पकृतात् प्राणातिपातात् । न करोमि न कारयामि मनसा वाचा कायेनेत्येवंविषयं प्राणातिपातमित्यादिविकल्पानामन्यतमेन प्रत्याचष्टे । तथा मृषावादान्न सर्वस्माद्, किं तर्हि ? स्थूलाद् भिन्नकन्यकां सतीमेवं भूमिं (उषरभूमिं ) अल्पश्रीरामेव गां बहुक्षीरां नाभिदधेऽहमित्यादिकात् । तथा कूटसाक्षित्वदानादेश्व व्यावर्तते, न पुनः स्नेह द्वेषमोहाभिभवाद् विपरीतभाषी भवति । प्रत्याख्यानविधिस्तु पूर्ववत् । तथा अदत्तादानाम सर्वस्मात्, किन्तु स्थूलात्, चौर्यारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदाऽपदविषयान्निवर्तते, न पुनः अल्पतृणेन्धन गोमयादिग्रहणात् । प्रत्याख्यानं पूर्ववत् । तथा मैथुनाद् न सर्वस्मात्, किन्तु स्थूलात् स्थूलं च परदारगमनं, तद्विषयमस्य प्रत्याख्यानं, अन्यपक्षे न । प्रत्याख्यानविधिः (च) पूर्ववत् । तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिग्रहात् विरमति सचित्तादेः स्थूलात् स्थूलाच्चापरिमाणतः सर्वेषां क्षेत्रवास्त्वादीनामभिलषित परिमाणव्यतिरेकं प्रत्याचष्टे । कालनियमेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति । शेषात् प्रत्याख्यानं, तद्विधिश्च पूर्ववत् । एवमेतानि पश्चाप्यणूनि - स्वल्पविषयाणि न यथोक्तसमस्तवि पयाणि व्रतानि यस्य सोऽणुव्रतोऽगारी व्रती भवतीति ॥ ननुच सोऽणुव्रत इत्येवं सूत्रं कार्यम् । उच्यते — सत्यमेवमनगारिव्रतपरामर्शः स्यात् तच्छब्देन, अनन्तरस्य विधिः ( वा भवति ) प्रतिषेधो वा" इति (परिभाषे०) वचनात् । अगारिणश्च महाव्रतधारित्वप्रसङ्गः । तच्चासमीचीनम् । अथ द्वयमभिसम्बध्यते अगार्थनगारच सोऽणुव्रतो भवतीति सुतरां महाव्रतानि निराधाराणि स्युः । अतोऽगारिग्रहणं कार्य, न कार्य महदित्यनेन शब्देन विशेषितानि तु तानि तानि यस्य सोऽनगारो महाव्रतीत्यु (पर्यु) क्तत्वात्, पारिशेष्याद्गार्थेव संभन्त्स्यते सोऽणुव्रत इति । एवं तर्ह्यधिकारार्थमगारिग्रहणम् । इतः प्रभृति यद् वक्ष्यते तत् सर्वममारिणो भवति आ अध्यायपरिसमाप्तेरिति ॥
66
सम्प्रति भाष्यमुक्तार्थानुसारेणाश्रीयते
भा०- अणून्यस्य व्रतानीत्यणुव्रतः । तदेवमणुव्रतधरः श्रावकोऽमारी मेंवति ॥ १५ ॥ किञ्चान्यत्
१' तद्विपर्ययं ' इति ङ-पाठः । २ ' क्षीरामेवगामदधे ' इति ग-पाठः प्रत्या० ' इति क-पाठः । ४ ' व्रती भवति ' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
३ ' यमस्य प्रत्याख्यान्यक्षेण
www.jainelibrary.org