SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमस्त्रम् . [अन्यायः ७ अनगारमेदास्तु गच्छवासिनो गच्छनिर्गताच, आचार्यादिभेदात् पञ्चधा गच्छवासिनः पुनः पुरुषाः, साध्व्योऽपि प्रवर्तिन्यादिभेदात् पञ्चधैव सदा च गच्छवाअनगारभेदाः नगारदा सिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिप्रतिमाप्रतिपअकादयः । अत्र गच्छवासादिषु नास्ति व्रतभेदः । सामाचारीकृतस्तु महान् विशेषोऽस्तीति तदाश्रयो भेदः सूत्रकारेणाविवक्षित इति । अधुना भाष्येण सूत्रार्थ स्पष्टीकुर्वनाह मा०-स एष व्रती विविधो भवतीति-अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ १४ ॥ टी०-स एष व्रतीत्यादि । अनन्तरसूत्रार्थेन सहामुं सूत्रार्थमनुसन्धत्ते । योऽयमनन्तरसूत्रे निःशल्यो व्रतीत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति । मौलभेदद्वयनिर्दिदिक्षया चाह-अगारी अनगारश्चेति । अगारमस्यास्तीत्यगारी, परिग्रहारम्भवान् गृहस्थ इत्यर्थः । अविद्यमानोऽगारोऽनगारः, परित्यक्तारम्भपरिग्रह इत्यर्थः । एतयोरेव पर्यायकथनेन व्याख्यानं तनोति-श्रावकः श्रमणश्चेत्यर्थः । अभ्यु पेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधना. श्रावकश्रमण- मगारिणांच सामाचारी शृणोतीति श्रावकः। श्राम्यतीति श्रमणः । “कृत्यशब्दार्थः ल्युटो बहुलं" (पा० अ०३, पा०३, सू० ११३) इति वचनात् कर्तरि ल्युट । श्राम्यति-तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् खाध्यायादिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति । एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पर्यायशब्दाभ्यामगारिसामान्यं अनगारिसामान्यं च व्यवच्छिन्नं दर्शितमिति ॥१४॥ अनाहेत्यादिना सम्बधातिभा०-अत्राह-कोऽनयोः प्रतिविशेष इति । अत्रोच्यते टी०-अगार्यनगारश्च व्रती भवतीत्युक्ते अत्र परः प्रश्नयति-कोऽनयोरगार्यनगारिणोतिनोः प्रतिविशेषो-वृत्तिविशेष इति । प्रतिविशेषो भेद इत्यर्थः । आचार्यस्तु तं विशेषमभिधातुकामः अत्रोच्यते इत्याह । योऽनयोर्विशेषः सोऽभिधीयते सूत्रम्-अणुव्रतोऽगारी ॥७-१५॥ . टी०–महाव्रतापेक्षया अणु स्तोकं अल्पं देश इति पर्यायाः । महाव्रतानि सर्वपापभेदविरतिलक्षणानि । सर्वस्मात् प्राणातिपातात् विरमामीत्यादि। अयं तु न सर्वतो विरतिमातिष्ठते, १'भवति' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy