________________
सूत्र १४]
• खोपज्ञभाष्य टीकालङ्कृतम् गारिणस्तावद द्विविधाः-सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपनोत्तरगुणाच, अपरे सम्यग्दर्शनमात्रभाजो वक्ष्यमाणाः षविकल्पाः, सम्यक्त्वोत्तरगुणप्रतिपत्ती चाष्टौ विकल्पाः ।
तथा द्वात्रिंशद् विकल्पाः । तत्र ये गृहीताणुव्रतास्तैरणुव्रतानि षभिः अगारिणां भेदाः प्रकारैरातानि-द्विविधं त्रिविधेन, द्विविधं द्विविधेन, द्विविधमेकविधेन,
एकविधं त्रिविधेन, एकविध द्विविधेन, एकविधमेकविधेनेति एकैकस्मिन्नणुव्रते षड् विकल्पाः । षट् पञ्चकास्त्रिंशत् प्रतिपन्नोत्तरगुणेन सहकत्रिंशत् सम्यग्दर्शनेन सह द्वात्रिंशत् ॥ ननु च नव विकल्पास्त्रिविधं त्रिविधेनेत्यादयः सप्तचत्वारिंशदुत्तरशतभेदनिपत्तेः सत्यं, सम्भवन्ति साधोः, न त्वगारिणः, सर्वसावधयोगप्रत्याख्यानप्रस्तावाभिधानाद्, विशिष्टविषयं तत्, सर्वसावद्यव्यापारप्रत्याख्यानं अनुमतेःसम्भवानास्ति गेहिनः, तत्पूर्वप्रयुक्तसावधकारम्भानुमतिमपहायैवासौ शेषं प्रत्याचष्टे इति । अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्त:-द्विविधं त्रिविधेनेत्यादि । द्विविधमिति न करोमि न कारयामि । त्रिविधेनेति मनोवाक्कायत्रयेण । एवं शेषविकल्पा अपि भाव्याः । त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमितीत्युक्तं नियुक्तिकारेण ॥ ननु च भगवत्यादावागमे-त्रिविधं त्रिविधेनेत्यपि विकल्पोऽस्ति प्रत्याख्यानमगारिणो भगवतीश्रुतप्रतिबद्धं च तदेव तनियुक्तिकारमतविघातकारि। उच्यते-नास्ति विधातः, उत्सर्गापवादद्वारेण प्रवृत्तेः । द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्यागारिण एभिः षभिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमापाद्यते, कचिद् विषये यः किल प्रविजिषुः प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थ तस्यैष संगच्छते विकल्पः । अथवाऽल्पाल्पं विशेष्य किञ्चिद् वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षीत स्वयम्भूरमणमत्स्यादिकमेवमप्युपपद्यते स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति ॥ ननु च नियुक्तिकारेण स्थूलप्राणातिपातादिविषयत्वेनोपन्यस्तः (किमिति)त्रि(द्वि)विधं त्रिविधेनेत्यादिर्विकल्पः ? | सत्यमेतत् , उत्सर्ग एव बहुलप्रसिद्धत्वान्नियुक्तिकारेणावाचि । यत् पुनः कचिदवस्थाविशेषे कदाचिदेव समाचयेते न सुष्टु समाचारानुपाति तन्नोक्तं, द्विविधसूत्रेषु च विविधमेव भूयसा रुध्यत इति न कश्चिद् दोषः ॥ प्रकृतमुच्यते । भूयोऽगारिणां भेदाः
"सोलॅस चेव सहस्सा, अहेव सया हवंति अहहिया । एसो उवासयाणं, वयगहणविहा समासेण ॥१॥"-आर्या
-आवश्यकवृत्तौ
१ श्रीभद्रबाहुस्वामिना। २ 'पालनाय' इति ङ-पाठः । ३ ' चक्षते' इति उ-पाठः । ४ छाया
षोडश चैव सहस्राणि अष्टैव शतानि भवन्ति अष्टाधिकानि । एष उपासकानां व्रतग्रहणविधिः समासेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org