________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ भिर्मायादिशल्यैत्रिभिरिति त्रीण्येव शल्यानि तैर्वियुक्तोऽन्तर्विशुद्धिप्राशस्त्यानिःशल्यो व्रती
भवतीति । तदेतदनेन प्रतिपादयति-अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जनादिभावतः सम्पूर्णव्रतित्वमिति । व्रतविशुद्धेश्च भाविन्यन्तर्विशुद्धिरिति ।। ननु च कषायाः कोपादयः सर्व एव सशल्यं मायामेकां निःकृष्य किमिति शल्यतया नियम्यत इति । उच्यते-एषा हि लब्धात्मलामा तिरोधाय कोपांदीन् ततोऽप्यात्मसामर्थ्येन वर्तते भुजङ्गीवोपचितविषा छलशतैर्निर्दयं दशति तथा नास्याः कश्चित् साधुवर्गाहते सुकुशलोऽपि विषवेगं निरुणद्धि, अतः सकलदोषजातप्रच्छादननिपुणा कुलटेव मायैव शल्यं, न शेषाः कषाया इति प्रधानत्वात् तन्मूलत्वाच्च मायाशल्यग्रहणम् । अतः शल्यरहितो व्रतीति स्फुटमिदम् । आह च
" निःशल्यस्यैव पुनः, सर्व व्रतमिष्यतेऽर्हतां लोके ।
उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः ॥१॥" निःशल्यतापूर्वकं व्रतित्वमिति प्रदर्शयन्नाह-व्रतान्यस्य सन्तीति व्रती । ब्रतानिहिंसाविरमणादीनि तानि, व्रतित्वमश्नुवते निःशल्यता आधार इति प्रागभिहितं भूमप्रशंसातिशायनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति । तदेवमित्यादिना भाष्येण निगमयति प्रकृतमर्थम्-निःशल्यो व्रतवान् व्रती भवतीति । निःशल्यस्यैव बतित्वं, न सशल्यस्येति । उक्तमप्यर्थं भूय आदराभिधानार्थमभिधत्ते मतुबिनोश्च समावेशार्थं व्रती व्रतवानित्येकोऽर्थ इति ॥ १३॥
सूत्रसम्बन्धो मुक्तक एव किमेष व्रती व्यपगतशल्यत्रयो हिंसाधभावात् यथोक्तक्रियासमूहविजृम्भितपरिणामः परित्यक्तगृहस्थव्यापारः सर्व एवागारसम्बन्धेष्वतिनिवृत्तीत्सुक्यः प्रतिज्ञायते, उताविरतोऽपि सर्वतः कश्चिद् गृही निश्चीयत इति । अत्रोच्यते-सामान्येन व्रतिनो लक्षणमभिधाय एषामेवाहिंसादीनां सकलविरतिविशेषादधिकृतो द्वेधा भवति
सूत्रम्-अगार्यनगारश्च ॥७-१४ ॥ टी०-अगारं-वेश्म तदुपलक्षणमारम्भपरिग्रहवत्तायाः, आरम्भः सूनापञ्चकं पृथिव्यादिजीवकायोपमर्दहेतुः, परिग्रहश्वेतनाचेतनो द्विपदचतुष्पदादिर्धान्यहिरण्यकनकमणिमुक्ताप्रवालादिः । एवं द्वयमप्यगारशब्देनोपलक्ष्यते । तदेतावारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति वा "जाताशंसस्यापरित्यक्ततत्सम्बन्धस्य सर्वोऽप्यगारी तदभिशम्बन्धाद गृहस्थ इत्यर्थः । परित्यक्तारम्भपरिग्रहो भवेत् तद्विपरीतोऽनगारः-प्रतिपन्नमूलोत्तरगुणकलापः । चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिषित मिति । अ
_१ 'अन्तर्विशुद्धश्च' इति ङ-पाठः । २'कोपात् सतोऽपि ' इति ङ-पाठः । ३ ' तथाप्यद्धा' इति उ-पाठः। ४'वति निःशल्य आधार' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org