SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सूत्रं १७ ] स्वोपज्ञभाष्य, ठीकालङ्कृतम् द्वादशवर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्थमासपरिणामया द्वादशवर्षाव्यवस्थयैवागमोक्तया संलेखना कालोऽवसेयः । संलेखनाऽवश्यं समाधिमरणपर्यन्ते विधेयाsनगारगारिभ्याम् । जोषितेति कर्तरि ताच्छीलिकस्तृन् । मारणान्तिकीं संलेखनां जोषिता - सेविता कर्तेति । एनमेवार्थ भाष्येण स्पष्टयति भा०- काल संहनन दौर्बल्योपसर्गदोषाद् धर्मावश्यकपरिहाणि मेरणं वाडभितो ज्ञात्वाऽवमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य संयमं प्रतिपद्योत्तमव्रत सम्पन्नश्चतुर्विधाहारं प्रत्याख्याय यावज्जीवं भावनाऽनुप्रेक्षापरः स्मृतिसमाधिबहुलः मरणान्तिकीं संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति ॥ १७ ॥ डी० - कालसंहननेत्यादिना । कालदोषो दुष्पमायां दुःशकं बहूनि वर्षाणि साधुगृहिधर्मानुष्ठानं मन्दधृतित्वात् पुरुषः यथोक्तं दुर्भिक्षवाच्यं दुर्भिक्षं वा । कालो दुर्लभान्नपानः । संहननं वज्रर्षभनाराचादि षोढा । संहननस्य दौर्बल्यं - दुर्बलता वज्रर्ष भनाराचादारभ्य हीयमानं यावत् सेवार्तमिति सर्वदुर्बलम् । उपसर्गास्तु दिव्यमानुषतिर्यक्कृतात्मसमुत्थाः । दोषशब्दः प्रत्येकमभिसम्बध्यते । कालदोषात् संहननदौर्बल्यादुपसर्गदोषाद् वा । धर्मो दशलक्षण कस्तद्विषयाण्यवश्यं कर्तव्यानि आवश्यकानि साधोः प्रत्युपेक्षणादीनि । अनगारिणोऽपि चैत्यवन्दन वैयावृत्य पौषधप्रतिपत्यादीनि तेषां परिहाणिः - अवसादः कालादिदोषात् तामवगम्य कालादिदोषमन्तरेण वा मरणं अभितः प्रत्यासन्नमवबुद्धयेदं कर्तव्यमित्याह - अवमौदर्ये - त्यादि । अवमं- न्यूनमुदरं तद्भावः अवमौदर्य अविकृतवदन कुक्कुट्यण्डकमानेन द्वात्रिंशत् कवला - हारः पुरुषः स्त्री वा (१) । ततः किञ्चिन्यूनतादिभेदेनाव मौदर्यमनेकविधमागमेऽभिहितम् । चतुर्थादिभक्तभावना पूर्वोक्तैव । आदिग्रहणादर्धमासक्षपणादिपरिग्रहः । एभिस्तपोविशेषैरात्मानं संलिख्य- तनूकृत्य विरूक्ष्य रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्च क्रोधादीनपास्य प्रोज्झ्य च गृहिव्रतित्वमभ्युपगम्य संयमं सर्वसावद्ययोगविरतिलक्षणमुत्तमैः - महाव्रतैः सम्पन्नञ्चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं यथासमाधि यावज्जीवमिति विशिष्टावधिकं भावनाऽनुप्रेक्षापरः । भावनाः पूर्वोक्ताः । अनुप्रेक्षास्तु वक्ष्यमाणा नवमे (०७) । तत्पर इति-तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्वं स्मरतिं यत् प्रतिज्ञातं महातादि, मुषितस्मृतेर्न निर्जराऽस्ति प्रमादवतः । समाधिरिति चेतसः स्वस्थता तद्बहुलः । नारौद्राध्यायीति । एवं बहुकुर्वनुत्तमार्थस्येति प्रकृष्टपुरुषार्थस्य - मोक्षस्याराधको भवतीति ॥ १७ ॥ १ 'मरणं ' इति घ-पुस्तके नास्ति । इति ग-पाठः । Jain Education International २ ' भावेनानुप्रेक्षा ' इति क-ख-पाठः । For Private & Personal Use Only ३ ' प्रत्यवेक्षणा• ' www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy