SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सूत्र १२] स्वोपज्ञभाष्य-टीकालङ्कृतम् मूर्छा, सैव च परिग्रहसद्भावपरिणामादात्मनो हिंसादिवत् प्रमत्तयोगानुवृत्तिसामर्थ्यात् संक्षेपतो रागद्वेषमोहमूला मूर्छा । तद्विरहितस्याप्रमत्तकायवामनोव्यापारस्य तु संयमोपकारिपधिशय्याहारशरीरेष्वागमानुज्ञातेषु न समस्ति मूछो । यथोक्तम् " 'जंपि वत्थं व पायं वा, कंबलं पायपुंछणम् । तंपि संजमलज्जहा, धारंति परिहरंति य (अ)॥१॥" -दशवकालिके (अ० ६, सू०१८) न च योग्योपकरणकलापादृते साध्यार्थसिद्धिरस्ति । येऽपि मूढाः पात्रवस्त्रादि आगमोक्तं मुक्तिसाधनमुपकरणमहिंसाव्रतपरिपालनप्रत्यलं न परिगृह्णते तैरपि जघन्यतः शरीराहारशिप्यादिपरिग्रहोऽवश्यंतया कार्य एवेति न परमनालोच्यैवोपालब्धुमर्हन्तीति । अल्पबहुत्ववि. शेष इति चेदित्यप्यसत् । दरिद्रस्य द्रविणमल्पं महर्द्धिकस्य प्रभूतमिति न दुर्गतोऽपरिग्रह इत्युच्यते । तस्मात् मूर्छालक्षण एव परिग्रहः, नेतर इत्यवश्यंतया प्रतिपत्तव्यमवशेनापीति ॥ प्रकृतमुच्यते । मृोलक्षितपरिग्रहनिर्दिदिक्षया भाष्यकदाहभा०-चेतनावत्स्वचेतनेषु बाह्याभ्यन्तरेषु द्रव्येषु मूछों परिग्रहः ॥ टी०-चेतनावस्वित्यादि । चेतना-चैतन्यं-ज्ञानदर्शनोपयोगः स येषु विद्यते ते चेतनावन्तस्तेषु चेतनावत्सु-एकद्वित्रिचतुःपञ्चेन्द्रियेषु अचेतनेषु च-प्रायो वास्त्वादिषु बाह्याभ्यन्तरभेदभाक्षु रागादिषु आत्मपरिणामेषु मूर्छा, द्रव्येषु इति विषयनिर्देशात् कचित पुद्गलद्रव्यमेव शुद्धं कचिदात्मप्रदेशसंयुक्तमिति । द्रव्यग्रहणाच्चतुर्विधपरिग्रहं सूचयतिक्षेत्रतो ग्रामनगराधवच्छिन्न ता]द्रव्यस्य, कालतो रात्रिंदिवव्यवच्छिन्नता, भावत इति प्रतिविशिष्टवस्तूपलम्मे महार्थे सति अतिशयवती मूच्छों प्रजायते मध्ये मध्या जघन्ये जघन्या इति ॥ मूर्च्छीयाथासंमोहार्थमिच्छादीन् पर्यायानाचष्टे भाष्यकारः . भा०-इच्छा प्रार्थना कामोऽभिलाषः काङ्क्षा गाय मूर्छमूर्छायाः पर्यायाः भार "त्यनान्तरम् ॥ १२ ॥ टी०-इच्छा-शतधनः सहस्रमिच्छति सहस्रधनो लक्षमिच्छतीत्यादि परम्परया सकलेन त्रैलोक्येनापि न ध्रायति । प्रकर्षणार्थना प्रार्थना, तनिष्ठत्वात् विद्यमानकिञ्चनमात्रोऽपि परमेव याचते तृष्णया वशीकृतः । कमनं कामः, यथाप्रधानद्रव्यकामिता, यद यद् गुणवद् द्रव्यं तत् तदनुरुध्यत इतियावत् । अभिलाषस्तु मानस एव व्यापारः, परर्द्धिदर्शनादाक्षिप्तचिवृत्तिर्मनसाऽभिलपति-एवं ममापि यदि भवेयुः सम्पद इति । काङ्क्षणं १ छाया यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोग्छनम्। . तदपि संयमलज्जार्थ धारयन्ति परिभुजते च ॥ २'दुर्गतिपरि' इति उ-पाठः। ३ 'निर्देशः' इति ङ-पाठः। ४ ' चेतोवृत्ति' इति उ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy