SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् भा०- अत्राह- अथ परिग्रहः क इति १ । अत्रोच्यते टी० - अत्राहेत्यादिना सम्बन्धकथनम् । अवधृतहिंसादिलक्षणचतुष्टयोऽपरलक्षणाभिधानप्रस्तावे प्रश्नयति — अथ परिग्रहः क इति ? | अथ - अब्रह्मानन्तरं परिग्रह उपदिष्टः, स किंलक्षण विषयः १ प्रश्ने आचार्य आह - अत्रोच्यते - अत्र - लक्षणप्रश्नेऽभिधीयते । बाह्याध्यात्मिकोपधि विशेष संरक्षणक्षयार्जनसङ्गपर्येषणा या सैव हि शब्दान्तरनिर्दिष्टश ८० परिग्रहलक्षणम् सूत्रम् — मूर्च्छा परिग्रहः ॥ ७-१२ ॥ टी० – अत्र प्रमत्तयोगादित्यनुवर्तते । मूर्च्छति । "मूर्च्छा मोहसमुच्छ्राययोः " (पा० धा० २१२) मृच्छर्चतेऽनया आत्मेति मूर्च्छा - लोभपरिणतिः तया आत्मा मोहमुपनीयते - विवेकात् प्रच्याव्यते, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोपरागादसमञ्जस प्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्य वा न किञ्चिच्चेतयते, समुपगूढमूढिस्तृष्णापिशाचिका वशीकृतचे तो वृत्तिचेष्टतेऽन्धवधिवदनालोचित गुणदोषः । समुच्छ्रायो वा मूर्च्छा, समुच्छ्रीयते -प्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागलानुरञ्जितो हिंसादिदोषैः । अतः सकलदोपाग्रणीर्लोभः । तथाच लुब्धो हिंसादिषु निरारेकं प्रवर्तते । तनयः पितरमपि हिनस्ति, भ्रातरं सहजः, पिताऽऽत्मजं, एवं जामिजननी पत्न्यादयोsपि वाच्याः । गृहीतोत्कोचश्च कूटसाक्षित्वदायी बहनृतं भाषते, बललोभस्य साम्रा- प्रहर्षात् पथि मुष्णाति पथिकजनं खनति क्षेत्रमपि चौर्यात् । लाभलोभाच्च राजादियोषितमप्यभिगच्छति । सर्वथा न कश्चन भावो बहिरन्तर्वा समास ज्यम् नो दूरवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजयाद् भावेन, प्रचुरतरा निष्ट सम्पादने लघुनि चोपनीयते दुश्चरितानि लोभभुजङ्गेन । अनेन पथिकृतः परमगौरवायतनेऽपि विषयपरिगयेन परिस्खलतीति मूर्च्छा लोभ इति । स चापि सर्वैः प्रकारैः । सा च मूर्च्छा लोभलक्षणा अभ्यन्तरबहिर्विषयालम्बना । तत्राभ्यन्तरो विषयः चतुर्दशविधः, बाह्याभ्यन्तरा तद्यथा - राग-द्वेष क्रोध - मान-माया-लोभ- मिथ्यादर्शन- हास्य-रत्य-रतिमूर्च्छाविषयाः भय-शोक- जुगुप्सा-वेदाख्यः । बहिरपि वास्तुक्षेत्र धनधान्य शय्यासनयानकुप्यद्वित्रिचतुःपाद्भाण्डाख्य इति । एतावान् विषयो मूर्च्छायाश्चेतः परिणामरूपायाः । एते रागादयः परिग्रहहेतुत्वात् मूर्च्छा, वास्त्वादयश्च ममैवेत्येवमज्ञानाद् विषयीकृताः कालुtadarsseमनोऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचित पूर्वापर भावेन परिग्रहोऽभिधी यते । परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृच्या स्वीक्रियत इतियावत् । परिमाणविशेषो [ अध्यायः ७ १' लोभपराग' इति ङ-पाठः । २ ' तथा अवलुब्धो ' इति ङ-पाठः । ३ ' क्षणमपि चोरयति' इति ग-पाठः । ४' गर्धेन ' इति ङ-पाठः । ५ ' वत् आत्मना ' इति ङन्पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy