________________
सूत्रं ११]
स्वोपज्ञभाष्य-टीकालङ्कृतम् '"कामं सव्वपदेसुवि, उस्सग्गववातधम्मता जुत्ता।
__ मोत्तुं मेहुणभावं, ण विणा सो रागदोसेहिं ॥१॥"-आर्या अतश्चानर्थकमेव प्रमत्तग्रहणमत्रेति । मण्डूकप्लुत्या चाधिकारानुवृत्तिः। असंख्येयलोकाकाशप्रदेशपरिमाणबृहत्त्वादात्मा ब्रह्मा । स च मैथुनानुस्मृतिसंस्कारस्पृहेन्द्रियालोकप्यरसविषयविकथासत्कृतिसंसक्तसेवाभेदाद् दशविधाद् अब्रह्मणो निवृत्तश्चरन् ब्रम-ब्रह्मध्वनिवाच्यः आत्मैव चरणं चर्यम् आत्मनोब्रह्मणः सेवनमात्मनि आमरणं न बहिर्मुखचित्तवृ. त्तिता स्यादिविषया, अतो मनोवाकायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचयेमात्मन्येव वृत्तेः, संवृतेन्द्रियद्वारत्वात् । तद्विपरीतमब्रह्म। तच्च तीव्ररागानुबन्धिना सङ्कल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गनकरजघटनालक्षणस्तत्कालरमणीयकलंप्रलापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपयप्रेमलेशात् स्वकल्पनासमारोपितमनोज्ञकानुपजातातुलविषयतर्षपरिमुषितशेमुषीकान् पुंसः क्रशयत्यतितराम् । तथाचानुकूलत्वाद् दुस्त्यजमपीदमशुचित्वादिभावनाजालसंस्पर्शनाद् विवेकिनो जहत्यवधीरितमकरध्वजप्रसराः । तदेतदब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाह
भा०-स्त्रीपुंसयोमिथुनभावः मिथुनकर्म वा मिथुनं तदब्रह्म ॥११॥
टी०-स्त्रीपुंसयोरित्यादि । स्त्री च पुमांश्च स्त्रीपुंसौ । “अचतुरा"दि (पा० अ० ५, पा० ४, सू० ७७) सूत्रलक्षितः स्त्रीपुंसशब्दः । तयोः स्त्रीपुंसयोरेंद्भुततीबदेहपरिणामयोमिथुनता-मिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलभमानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोर्यो मिथुनभावः कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रतिविशिष्टमैथुनकर्मसंप्रत्ययो न पुनः प्रयोजनवशादासमप्रदेशस्थितस्त्रीपुंसमिथुनमात्रं मिथुनभावो मिथुनकर्म वाऽभिधीयते । ततश्च स्त्रीप्रवजितयोश्चैत्याभिवन्दनादिकर्मण्यप्रसङ्गो मिथुनभावस्य । तद् अब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मिथुनकर्म वा सर्वमेतन्मैथुनमब्रह्मेति निगमनद्वारेण परामृश्यते । स्त्रीपुंसग्रहणं प्रधानत्वात् । पूर्वोक्तसकलविकल्पप्रतिपादनार्थम् । प्रधानं च स्त्रीपुंसयोमिथुनभावः, पृथगनाचरितास्तु शेषविकल्पाः । ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः । तदेतदब्रह्म संक्षेपतो रागद्वेषमोहसूलमनर्थपरम्परा रागात् परदाराभिगमलाभसत्कारात्ममित्रत्राणार्थमासेवते द्वेषाद् वैरनिर्यातनार्थ मोहात् स्वस्रादिपरिभोगाधनुष्ठानमविच्छिन्नविषयपिपासाः समाचरन्ति । साधवस्तु विवेकबलादुपशान्तरागादिरजसः सर्वात्मना परिवर्जयन्तीति ॥ ११ ॥ १छाया
कामं सर्वपदेष्वपि उत्सर्गापवादधर्मता युक्ता।
मुक्त्वा मैथुनभावं न विना स रागद्वेषौ ॥ २'वोदितः' इति हु-पाठः। ३ 'लाप्रतापश्च' इति पाठः। ४ 'रुदूत' इति -पाठः। ५‘संप्र. स्ययोन पुनः' इति -पाठः। ६'च' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org