________________
तत्त्वार्थाधिगमसूत्रम् ..
[ अध्यायः ७ प्रायदुर्विदग्धजनप्रहत एष पन्था उपेक्षणीयः, सप्रत्यवायत्वादिति । सर्व चेदं रागद्वेषमोहमूलम् । उक्तं मोहर्ज, राग तु यस्य येनार्थित्वं स तस्यापहारमाचरति लाभसत्कारयशःसमावर्जनार्थ वा, द्वेष वैरप्रतियातनार्थमिति ॥ १० ॥
भा०-अत्राह-अथाब्रह्म किमिति ? । अत्रोच्यते
टी०-अत्राहेत्यादिना सम्बन्धं प्रतिपादयति । अत्रेति व्याख्याते हिंसादित्रयलक्षणे पर आह--अथाब्रह्म किमिति ?। अथेत्यानन्तर्यसूचकः । ब्रह्मणोऽन्यद् अब्रह्म । तत् किंलक्षणमिति प्रश्ने सत्याह
अब्रह्मलक्षणम् सूत्रम्-मैथुनमब्रह्म ॥७-११॥
टी०-मिथुनं द्वयमुच्यते । तत् कदाचित् द्वयमपि सचेतनं, कदाचिदेकं सचेतनं एकमवेतनम् । तत्राद्यं पुरुषवेदोदयात् पुमानुदितस्त्रीवेदया दिव्यमानुषतिर्यकस्त्रिया सह संयुज्यते । अथवा पुरुषेण नपुंसकेन फलादिविवरेण स्वहस्तादिना वा । एवं योषिच्चेतन कन्दादिभिरन्यहस्तादिभिरपीति । पश्चिम विकल्पे तूदितवेदः पुमान् अचेतनाभिर्दिव्यमानुषतिर्यकस्त्रीप्रतिमाभिर्लेप्यकाष्ठोपलपुंस्तचित्रकर्मादिरूपाभिः सह संपृच्यते। अन्यैश्वाचित्तस्रोतोभिzतशरीरकेण वा। तथा योषिद् अवेतनपुरुषप्रतिकृतिवर्तिना लिङ्गेन काष्ठशलाकादिना वा युज्यते बहुप्रकारेण कृत्रिमोपकरणेन विडम्बयत्यात्मानम् , एवं सर्वत्र मिथुनसम्भवः। तयोर्भावो मैथुनं अविकृतत्वाद् युवादेराकृतिगणत्वादण् । अथवा मिथुनस्येदं कर्म, "तस्येदं" (पा० अ० ४, पा० ३, सू० १२०) इति अण्। अचेतनमपि हि वस्तु प्रतिमादि विवक्षिततत्कर्मयोग्यतया परिणममाणमनुग्राहक तथा भवतीति समीचीनमेवेदं तयोर्भावो मैथुनमिति । आगमस्तु द्रव्य-क्षेत्र-काल-भावमेदाचतुधो । मैथुनं द्रव्यतो रूपेषु वा रूपसहगतेषु वा द्रव्येषु, रूपमचेतनं पुद्गलद्रव्यमानं प्रतिमादि, न तु वर्णमात्रमेव, रूपसहगतेषु वा द्रव्येष्विति रूपं तदेव पुद्गलद्रव्यं तादृशा रूपेण सह संभूय गतानि यानि जीवद्रव्याणि, गतानीत्यन्यानुवेधिना परिणामेन परिणतानि चेतनाभाजि शरीराणीत्यर्थः । तद्विषयं मैथुनं द्रव्यतः, क्षेत्रतोऽनन्तरवत् । भावो हि रागद्वेषपरिणाम आत्मन इत्यतः प्रमत्तयोगादिति अत्रानुवर्तमानमपि नोपयुज्यते, यत्राप्रमत्तस्य सतस्तथाभावे सति कर्मबन्धाभावस्तत्र प्रमत्तयो
गग्रहणमर्थवद् भवति-प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, प्राणातिपातप्रमत्तयागा वत्, इह पुना रागद्वेषान्वयाविच्छेदात् सर्वास्ववस्थासु मैथुनासेविनः कर्मनोपयोगे हेतुः बन्ध इति । आह च-(बृहत्कल्पे)
१ पुस्तकचित्र' इति ङ-पाठः । २ 'त्यन्योऽनुवेधिना' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org