________________
भाष्यपाठ
सूत्र १०] .नोपज्ञभाष्य-टीकालङ्कृतम्
৩৩ ... यते, तदयुक्तम् । न ह्यपरिगृहीतस्य शास्त्रेणानुज्ञातस्य ग्रहणं स्तेयमिष्यते,
तस्मादपरिगृहीतस्येति प्रमादपाठः । तथा तस्यैव भाष्यकृतः शौचप्रकरणे ग्रन्थः-" अदत्तादानं नाम परैः परिगृहीतस्य तृणादेरप्यनिसृष्टस्य ग्रहणं स्तेयम् ।
परैरनतिसृष्टं यद् , यच्च शास्त्रैविगर्हितम् ।
तत् सर्वे न ग्रहीतव्यं, दन्तविस्फाटनाद्यपि ॥१॥"-अनु० न प्रकरणकारेणात्रापरिगृहीतस्येत्युक्तम् । आदिग्रहणादनेकविधसारासारचेतनमिश्रद्रव्यजातपरिग्रहः । जातशब्दः प्रकारवचनः । द्रव्यजातं-द्रव्यप्रकारः । गुणपर्याययोद्रव्यपरिणामविशेषादेव न भेदेनोपादानमिति ॥ ननु चैवंविधे भाष्यार्थे परैः परिगृही. तस्यादत्तस्य स्तेयबुद्धचा ग्रहणमदत्तादानमिति । अनेषणीयादेग्रहणप्रसङ्गः। येन परिगृहीतमनेषणीयादि स ददात्येव । ततस्तद्रहणे कथं स्तेयमिति ? उच्यते-सत्यम् । गृहिणा दीयते, शास्त्रेण तु प्रतिषिध्यते । गरीयांश्च शास्त्रप्रतिषेधः । भवतु नाम शास्त्रप्रतिषेधः तच्छास्त्रं कथं परशब्दवाच्यम् ? । परो ह्यात्मा चेतनालक्षण इति ? । उच्यते-शास्त्रमपि ज्ञानमात्मनः परिणामविशेषः । स परिणामिन्यात्मनि अभेदेन वर्तमानः परशब्दवाच्योऽन्यक्षेण प्रहतघातिकर्मणो भगवत उपदेशादुपजातभावश्रुतपरिणामा गणधरप्रत्येकबुद्धस्थविराः प्रतिषेधयन्त्यनेषणीयादि, वर्णपदवाक्यराशिद्रव्यश्रुतमुपचारात् शास्त्रमुच्यते पुस्तकादिलिखितम् , अतः सर्वमदत्तादानं सूत्रेण समग्राहीति । तच्चतुर्धा अधीतमागमे-द्रव्य-क्षेत्र-काल-भावभेदात् । द्रव्यतो ग्रहणधारणीयेष्वित्युक्तं, क्षेत्रतस्त्रैलोक्यव्यवच्छिन्नानि तान्येव द्रव्याणि, कालभावौ तु पूर्ववद् भावनीयौ ग्रहणधारणीयेष्विति । आदानं गृह्यमाणधार्यमाणद्रव्यविषयत्वाद् द्रव्यैकअब देशवृत्ति, न तु समस्तद्रव्यविषयम् । ग्रहणधारणे तु साक्षात् पुद्गलद्रव्यस्यैव
स शरीराणां च, जीवानां पुद्गलद्रव्यद्वारेणैव ते ग्रहणधारणे, न पुन: साक्षात् ॥ ननु चैवं परकीयभूमिखण्डापहारे धर्माधर्माकाशकालानामपि तदवच्छिन्नानामपहारः । ततश्चैतदपि सकलद्रव्यविषयमेव स्यात्, न द्रव्यैकदेशवृत्तीति । उच्यते-हस्तादिना करणेन यद् द्रव्यं पूर्वकाधारप्रदेशात् प्रदेशान्तरं प्रापयितुं शक्यते तद् ग्रहणधारणीयशब्दाभ्यामार्षे विवक्षितं, तच्चैवंविधं ग्रहणं धारणं चाकाशादिषु न सम्भवति । तस्माद् द्रव्यैकदेशवृत्त्येवादानं न्याय्यम् ॥ अपरे तु मोहादभिदधते "-यद्यपि ब्राह्मणो हठेन परकीयमादत्ते छलेन वा तथापि तस्य नादत्तादानम् , यतः सर्वमिदं ब्राह्मणेभ्यो दत्त, ब्राह्मणानां तु दौवल्याद् वृषलाः परिभुञ्जते, तस्मादपहरन् ब्राह्मणः स्वमादत्ते"। "स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति (च)"(मनुस्मृतौ अ० १, श्लो० १०१) इति सर्वमिदमसम्बद्धत्वात् प्रलापमानं श्रोत्रिय
१'परिणमति आत्मनि' इति ङ-पाठः।। २'माहारः' इति -पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org