________________
तत्त्वार्थाधिगमसूत्रम् • .
स्तेयलक्षणम् सूत्रम् —–— अदत्तादानं स्तेयम् ॥ ७-१० ॥
1
ढी ० - प्रमत्त योगादित्यनुवर्तते । दीयते स्म दत्तम् । कर्मणि निष्ठा । कर्म च कर्तुरीप्सि - ततमं चेतनाचेतनं वस्तु, ममेत्येवं परिगृहीतं पञ्चभिर्देवेन्द्रादिभिः कस्मैचिद् दीयते यत् तद् दत्तमुच्यते । यत् तु तैः परिगृहीतमेव न दत्तं तस्यादानं - ग्रहणं धारणं च स्वेच्छया हटेन समक्षमेव चौर्येण वा (तत् स्तेय ) मुच्यते, देवेन्द्रादिभिः परिग्रहीतृभिर्दीयमानमपि किञ्चिद् भगवता नानुज्ञातमागमे शय्याहारोपधिष्वनेपणीयादि तदपि स्तेयमेव ॥ ननु चैवंविधमेव सूत्र कार्यम् - शास्त्रेणादत्तस्यादानं स्तेयमिति । सत्यम्, एवं संगृह्यते सकलं विचार: लक्षणं तथापि लाघविकाशय आचार्यः सूत्रबन्धमेवं न चकारेति । अनेन च लक्षणेन खरकुटीसम्बन्धिमानुष के शादेर्भावत उज्झितस्य सति प्रयोजने ग्रहणमकरादिस्थानोज्झितचीवरादेव न स्तेयमिति ।
सूत्रपाठ -
७६
भा०-- स्तेयबुद्धया परैरदत्तस्य परिगृहीतस्य वा तृणादेर्द्रव्यजातस्यादानं स्तेयम् ॥ १० ॥
[ अध्यायः ७
--
टी० - स्तेयबुद्धयेत्यादि भाष्यम् । स्तेनस्य भावः स्तेयं, हरामीत्यादातुः परिणामः स्तेयबुद्धिः । सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया कषायादिप्रमादकलुषितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति । आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यम् । स्तेयबुद्धिग्रहणात् तु कर्मादानं न स्तेयमिति । ज्ञानावरणः दिकर्मणो हि यद्यप्यदत्तस्य ग्रहणमात्रं तथापि न तत्र स्तेयबुद्धि[र्बन्धु]रस्ति । सत्स्वपि प्रमादादिवन्धहेतुषु स्तेयबुद्धया त्वादित्समानस्य स्तेयम् । एतदेव स्फुटतरमाचष्टे भाष्यकारः - परैरदत्तस्येत्यादिना । परैः परिगृहीतस्य दानप्रवृत्तिरदानं वा सम्भ वति नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं, न तु ज्ञानावरणादिकर्मणः कचित् परिगृहीताऽस्ति यो दास्यति न वेति । यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति कर्मणि प्रसङ्गः । अपिच - प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थकरस्य तीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरञ्जितचरणस्य नाभेयस्य । कियतः पुनरस्यादेयस्य स्वीकरणं स्तेयमित्याह - तृणादेर्द्रव्यजातस्येति । तृणमादिर्यस्य द्रव्यजातस्य तत् तृणादि । तृणग्रहणं निःसारताप्रतिपादनार्थ अल्पताप्रतिपादनार्थं च । तृणेन निःसारेणाल्पेनैकेनाप्यपहृतेनात्यन्तमैहिको दोषो न सम्भाव्यते, तादृशस्याप्यदत्तस्यादानं स्वेयं भवति, किमुत मरकतपद्मरागादेरिति ? । अत्र च परिगृहीतापरिगृहीतस्येति केचित् भाष्यमधी
१ दशवैकालिके—–“ जंपि वत्थं च पायं वा अकप्पिअं न इच्छिजा " । २ ' स्पष्टतरं ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org