________________
७५
सूत्रं ९] .स्नोपज्ञमान्य टीकालङ्कृतम्
७५ वाचकेनाप्युक्तम्
" यद् रोगदोषवद् वाक्यं, तत्त्वादन्यत्र वर्तते ।
सावधं वाऽपि यत् सत्यं, तत् सर्वमनृतं विदुः ॥१॥" तथा परेणाप्युक्तम्
" अनृतमसद्वचनं स्या-चतुर्विधमसच्च जिनवरैदृष्टम् ।
सद्भूतप्रतिषेधो-ऽसद्भूतोद्भावनं च तथा ॥१॥"-आर्या नास्ति घटः, शशशृङ्गमस्तीति, गर्हितवचनं व्य(य)सत् सतोऽपि वा वचनमन्यथा यत् स्यात्, गर्हितमुपघातादि, इतरच गौरश्व इति वचनं, तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्यवस्थितम् । तच्च संक्षेपतश्चतु:स्थानसंगृहीतं सर्वद्रव्यविषयमन्यूनम् । द्रव्याणि च लोकालोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिणत आत्मा। अनेनैतदपि प्रतिक्षिप्तमवसेयम्मभिपतन नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले ।
तानिरासः प्राणात्यये सर्वधनापहारे, पश्चानृतान्याहुरपातकानि ॥१॥"-उपजातिः ' इति । अपरे तु मोहादयुक्तं मृषावादलक्षणं ब्रुवते । अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः । यद्वचनं यमर्थ ब्रवीति तस्मिन्नन्यथासंज्ञीभवति चौरमचौरमिति, यं वाऽधिकृत्य - वीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद्वाक्यं मृषावादः, अर्थाभिज्ञश्चाभिज्ञातुं समर्थो यश्च उत्पन्नभावः उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थश्च मनोविज्ञान विषयो न श्रोत्रविषयश्च, अभिज्ञातुं समर्थे श्रोतरीत्येतदभ्युपेतं भवति । वाक्यार्थानभिज्ञे तु संभिन्नः प्रलापः स्यान मृषावाद इति, तदेतदयुक्तं, प्रमत्तभाषितत्वात् । अर्थाभिज्ञोऽनभिज्ञोवा भवतु श्रोता, किं तेन बाह्येनं वस्तुतो निमित्तमात्रतयोपयुज्यमानेन ? स्वाश्रयोऽत्रापराध्यति । सर्वथापि प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधत्ते तदनृतम् , आशयस्याविशुद्धत्वात् । संभिन्न प्रलापश्च परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न भिद्यत एव वाचकमुख्यप्रणीतानृतलक्षणात् इति ॥९॥
भा०-अत्राह-अथ स्तेयं किमिति ? । अत्रोच्यते
टी०-अत्राहेत्यादि सम्बन्धं वक्ति । पूर्वमूत्र क्रमोपन्यस्तहिंसाद्यपधृतलक्षणानन्तरं स्तेयलक्षणं प्रश्नयति-अथ स्तेयं किमिति। लक्षणविषयप्रश्ने यल्लक्षणं पृच्छयते कीडगिति । आचार्यस्तु अत्रोच्यत इत्याह । अत्र प्रश्ने स्तेयलक्षणमुच्यते
१ 'भावदोष. ' इति ग-पाठः। २'मद्भूतं ' इति ऊ-पाठः । ३ "स्वाशयो' इति हु-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org