________________
८२
तत्वार्थाभिगमसूत्रम्
[ अध्यायः ७
काङ्क्षा अर्जनमतिपरिणामाविच्छेदः । गृध्यतीति गांर्ध्यम् । पचाद्यच् । गर्भो गृद्ध इत्येकोऽर्थः । यथाऽऽमिषार्थी गृद्धो दूरत एवालोक्य चक्षुषा संपतति एवं लोभकषाय निनो यानि यानि द्रव्योत्पत्तिधामानि तेषु सम्पत्य किश्चिदासादयति । अतो गृद्धस्य भावः कर्म वा गार्ध्यम् । मूर्च्छा प्राग् व्याख्यातैव । अर्थादन्योऽर्थोऽर्थान्तरम्, न अर्थान्तरं अनर्थान्तरम् । सर्व एवायमेवमनर्थकारको लोभकषायकलिविजृम्भते, न कश्चिद् भेद इति ॥ १२ ॥
भा० - अत्राह - गृह्णीमस्तावद् व्रतानि । अथ व्रती क इति । अत्रोच्यतेटी० - अत्राहेत्यादिना सम्बन्धमुपपादयति । अत्र - अहिंसादिलक्षणपरिसमात्यवसरे पर आह- गृही मस्तावदित्यादि । गृह्णीम इत्यवगच्छामः । इह हिंसादिविरतयो व्रतानीति । तावच्छन्दः क्रमावद्योतनार्थः । क्रमश्चायम् - प्राग् व्रतपरिज्ञानं पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वम् । अथ (च) प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति सन्दिहानस्य प्रश्नः ॥ ननु च यस्योत्तलक्षणानि व्रतानि सन्ति स व्रती, किमास्पदः सन्देहः १ उच्यते - विशिष्ट एव सम्बन्धे व्रतित्वम् । नात्र मत्वर्थीयः सम्बन्धसामान्यमात्रविवक्षायाम् । किं तर्हि १, [[कं ] विशिष्टस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वम् । तथाचाह
१ ॥ "
इति प्रशंसायामिनिः प्रत्ययो भूमार्थेऽतिशायने वा । तत्र प्रशंसार्थे मिथ्यादर्शननिदानमायाशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वम्, अतिशायनार्थेऽपि अयमेव मिथ्यादर्शनाद्यपगमात् प्रकृष्टस्य सम्बन्धिनो
व्रताभिसम्बन्धाद् व्रतित्वम्, भूमार्थेऽपि पूर्वोक्तभावनाभिः स्थिरीकृत चेतसोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलाप दुःखबुद्धया निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्यप्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेरखलोकितशरीरस्वभावस्य मुक्तिं प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्यशून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सन्निवेश्य आचार्यः अत्रोच्यत इत्याह ।
व्रतव्रतिनोः
सम्बन्धः
" भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां, भवन्ति मतुबादयः
सूत्रम् - निःशल्यो व्रती ॥ ७-१३ ॥
टी० - शलतीति शल्यम् । औणादिको यप्रत्ययः । अन्तर्भिनत्ति कायादि, तच्चावतिष्ठमानं वपुषि बलारोग्यपरिहणिमापादयति शरीरिणः, तद्वन्मायानिदान मिथ्यात्वानि अन्तर्गतानि वर्तमानानि संयमस्वरूप भेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं ज्ञानावरणवीर्यहानिं च विदधतीत्येतत् शल्यानीव शल्यानि । निष्क्रान्तः शल्येभ्यो निःशल्यः प्राणातिपातादि
१ ' गार्धः ' इति ङ-पाठः। २ इदं पद्यं दृश्यते सिद्धान्तकौमुद्यां ( पा० अ० ५, पा० २, सू० ९४ ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org