________________
७१
सूत्र ८.]
स्वोपज्ञभाष्य-टीकालङ्कृतम् एकेन्द्रियादीनां भावमनस्तु विद्यत एवात्मस्वभावत्वाद्, द्रव्यरूपमन्तःकरणमन्तरेण स्पष्टमपटु पटलावृतनेत्रवत , संज्ञिपञ्चेन्द्रियाणामन्तःकरणसहितानि पश्चापीन्द्रियाणि विद्यन्ते । पट्वी चैषां प्रज्ञा । कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताधनुतिष्ठन्ति, प्रकर्षतोऽप्रतिष्ठाननरकगमनयोग्यम् । असंज्ञिपञ्चेन्द्रियास्तु मनोरहितत्वात् प्रथमपृथिवीनरकगमनयोग्यमेव प्रकर्षतो निवर्तयन्ति । एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नवोपाददते, ते हि नरकगतिवर्जसंसारपरिभ्रमणयोग्यमेवावा निर्वतयन्ति कायवाग्योगिनः । काययोगिनश्च कषायविशेषापेक्षमप्रकृष्टं च । फलस्य च प्रकर्षापकर्षों अन्तःकरणकषायापेक्षौ । संज्ञिपश्चेन्द्रियाणामारम्भहननव्यापादितकालभेदेन प्राक् प्रतिपादितौ । “तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः" इत्यत्र (अ० ६, सू० ७) सूत्रे । कचित् कायादित्रयसन्निधानेऽप्यन्यतमस्यैव व्यापारः। तन्दुलमत्स्यस्य मनोव्यापार एव केवलः। कषिद् वाङ्मनोव्यापारात् प्राणातिपातावद्यम् । यथा
"वर्ष देव! कुणालायां, दिनानि दश पञ्च च । मुसलस्थूलधारामि-येथा रात्रौ तथा दिवा ॥१॥"-अनु०
__-आवश्यकवृत्तौ अनादेशस्थाने अत्रात्यन्तऋराशयाभ्यां श्रमणकाभ्यां लोककदर्थनामसहमानाभ्यां, कष्टतपःसमावर्जित
देवतया तद्वचनाभिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजङ्ग रागद्वेषमोहहेतु मानां प्राणिनां गन्धोऽपि नासीदिति स एष प्राणातिपातः प्रमत्त
' योगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः संक्षेपादवसेयः । रागप्रवृत्तिकस्तावच्च मदकरिदशनचित्रकचर्ममांसाद्यर्थो मृगयाक्रीडार्थो वा स्वजीवितमित्रादिपरिरक्षणाय वा। मायालोभौ च रागः, द्वेषजो वैरनिर्यातनादिकः परशुरामसुभूमादेरिव, क्रोधमानौ च द्वेषः । अज्ञानजो याज्ञिकानां पश्वादिविशसनेन स्वर्गमिच्छतामवनिपतीनां च दृष्टः । परिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनामप्रेक्षापूर्वकारिभिर्यदेकैरुत्काल्यमानानां तस्करपारदारिकाद्युल्लम्ब(ञ्छ)नशूलिकाभेदक्रकचपाटनच्छेदनादिकः । तथा संसारमोचकानां धर्मबुद्धया संसारात प्राणिनो मोचयतां परोपपातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधात् किल पुण्यावासिरितिप्रवृत्तीनां, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्था इति तद्धनने नास्ति दोष इत्येवं प्रवृत्तानामशेषमेव मोहविजृम्भितमिति ॥
'सम्प्रति हिंसायाः पर्यायशब्दानाचष्टे सरिरसंमोहार्थम्, आगमे च सर्वव्यवहारद र्शनात् । आह च
"क्रियाकारकभेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, श्रोतादिहितो मतः ॥१॥"-अनु०
का वधा:
Jain Education International
For Private & Personal Use Only
-- www.jainelibrary.org