________________
तत्त्वार्थाधिगमसूत्रम् ..
[ अध्यायः ७ . हिंसनं हिंसा द्रव्यभावाभ्यां, द्रव्यतः षडूजीवनिकायविषयं प्राणिनां पृथक्करणं सकललोकप्रमाणोपाधिविशिष्टं रात्रिंदिवव्यवच्छिन्नं रागद्वेषमोहपरिणतिविशिष्टं च ।
मारणमपि यथाविहितप्राणपरित्याजनम् । अतिपातो विनाश: ... वधपर्यायाः प्राणानामतिपातः, अथवा अतिपातः-पातनं शाटनं प्राणानामति
पातनं प्राणातिपातः। वधः-उपमर्दः प्राणानां वधः प्राणवधः । देहः-शरीरं देहादन्यो देहान्तरं, संक्रामणं-नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंक्रामणं साधनं “कृते"ति समासः (१)। पूर्वशरीरकं त्याजितः शरीरान्तरं परिप्राप्यते संसारभावी, न पुनर्यो मुक्तिमाप्स्यतीति । रोपणं जन्मपरिप्रापणं संवर्धनं च, आरोपण-उत्सादनं उत्खननं विशेषेणारोपणं प्रमादपरवत्तया, मारणादिशब्दार्थेष्वपि एतद् विशेषणं द्रष्टव्यम् । प्राणानां व्यपरोपणं प्राणव्यपरोपणम् । इतिशब्द एवंशब्दार्थे । एवमुक्तेन प्रकारेणानर्थान्तरं सूत्रन्यस्तहिंसाशब्दार्थान्नार्थान्तरं मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेमिः प्रतिपाद्यत इति ॥ ८॥
भा०-अत्राह-अथानृतं किमिति । अत्रोच्यते
टी०-अत्राहेत्यादिना सम्बन्धं व्याचिख्यासते-अथानृतं किमिति । अथेति हिंसानन्तरं अनृतं निर्दिष्टं प्राक्, तत् किंलक्षणमित्यजानानः प्रश्नयति। आचार्यस्तु तल्लक्षणं वक्तुकाम आह-अत्रोच्यत इति । अत्र प्रश्नेऽभिधीयत इति । एतदुक्तं भवति-अभिहितहिंसालक्षणानन्तरोहिष्टमनृतं किंलक्षणमित्यत्रोच्यते नानाप्रकारं परपीडापादनसमर्थम्अनृतस्य लक्षणम् सूत्रम्-असदभिधानमनृतम् ॥ ७-९॥
टी०-प्रमत्तयोगादित्यनुवर्तते अतो वाक्यार्थः-प्रमत्तयोगादसदभिधानमनतमिति । प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुङ्क्ते यत् तदनृतम् । भावसाधनः करणसाधनो वाऽभिधानशब्दः । अव्ययम् । ऋतमिति सत्यार्थे । न ऋतमनृतम् । मिथ्याऽनृत
मिति सूत्रविन्यासो युक्तो लघुत्वादिति चेत् तन्न । सत्याभासस्य परपीसूत्रविन्यासस. डाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशिकादिवाक्यस्येवा
सदभिधानग्रहणम् । एवंविधे च सूत्रविन्यासे पर्यायमात्रमित्युक्तं स्यात् , नतु लक्षणं मृषावादस्येत्यसद्ग्रहणे तु सर्वमुपपद्यते। अभिधान--वाग्योगविषयः। भावसाधनपक्षे प्रमत्तस्याभिनिविष्टचेतस आत्मनः कर्तुर्विवक्षितार्थप्रेतिपादने साधकतममिति । कायेन हस्तलोचनौष्ठपादाद्यवयवक्रियाभिरलीकाभिः परं वश्चयति, वाचाऽप्यसद् ब्रवीति, मनसाऽप्यालोचयति एवं परः प्रतारणीय इति । सच्छब्दः प्रशंसाओं लीके प्रतीतः सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु । न सद् असत् अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा । तच त्रिविघमसदित्यादिना भाष्यकारो दर्शयति
१ 'व्यवस्थितं ' इति -पाठः। २ 'प्रतिपादिते इति ' ग-पाठः।
विचारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org