________________
सूत्र ८]
•स्वीपक्षमाष्य-टीकालङ्कृतम् च कारयतो नाधर्मप्रसङ्गः। न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यत इति । यदप्यमिहितम्-अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात पापप्रसङ्ग इति, इष्टमेवैतत । यतो येषां जीवानां काष्ठादिशरीरं तदा वाच्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा ।। यच्चोक्तम्-न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति, एतदप्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याग्निरुदाहृतः । प्रयोगस्तु-अजानानस्य प्राणवधक्रियाऽवद्यहेतुः प्रमत्तव्यापारनिवृत्तत्वात् तृतीयविकल्पप्राणवधक्रियावदिति। यश्चावघहेतुर्न भवति स प्रमत्तव्यापारनिर्वृत्तोऽपि न भवति, यथा प्रथमविकल्प इति । यच्चाशंक्योक्तं-स्वरसभरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्ति: स्वयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य, किं तर्हि प्रयत्न: करोति? अनागतस्य क्षणस्योत्पत्ति प्रतिबध्नातीति। एतदप्यत्यन्तमयुक्तम् । अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः १ असत्त्वरूपत्वात् शरशृङ्गस्येव । अतो नाभावः कर्तुं शक्यः। प्रतिबन्धाप्रतिबन्धौ च भावविषयौ । स्मर्तव्यं च प्राणातिपातलक्षणं खं सौगतेन-प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुर्ने वा भावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति वैनसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभादकरादिवत ,हेतुमत्त्वात् , तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः । यदा विनाशशब्देनावस्थान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टम् ? । अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् । एवमपि न विनाशस्य विनाशे किञ्चित् कारणमुपलभामहे । प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः किमसन्नुत नित्य इति । असत्त्वे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः । अथ नित्यो विनाशः, कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् ॥ यच्चोक्तं-कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते न त्वन्यस्यात्मनोऽभावादिति तदप्यसमीचीनम् । यत एकस्थितवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकः स्थितश्वात्मा। सति तस्मिन् पुरुपार्थप्रवृत्तिप्रतिपत्तिरिति ॥ ननु चानुभवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धाः । तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपसमिति, तत् न, परमार्थतस्तस्यासत्त्वात् । न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणविषयावधारणं शक्यं कर्तुम् । सश्चिन्त्य परस्थाभ्रान्तिमारणमिति भिन्नाः सञ्चेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः किं सञ्चेतयितुः ? अथ यस्य परविज्ञानमुभयस्याभ्रान्तिः १ अथ येन मारित इति । सर्वथा गृहीतशरणत्रया अप्यशरणा एव सौगता इत्येवं विचायेमाणं सुगतशासन निःसारत्वान्न युक्तिं क्षमत इति ॥
प्रकृतमुच्यते-व्यवस्थितमिदं प्रमत्त एव हिंसकः, नाप्रमत्त इति । सामान्येन कर्तृनिर्देशः १ चाव्युत्सृष्टं ' इति ङ-पाठः । २. हन्तुरिति '.इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,