________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ तस्मादेनःपदमेतत् वसुबन्धा(?)रामिषगृद्धस्य गृद्रस्येवाप्रेक्ष्यकारिणः । अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुश्चनाद्युपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासंभवोऽत्यन्तमेव शासितरि ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपो देशितं, कुतोऽवद्यप्राप्तिरप्रमत्तस्येति । अन्यदापि श्रद्धाशक्यादिगुणसमन्वितोप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधुदेशेनाकृताकारिताननुमतं गृहितोऽप्यागमानुवृत्या गृह्णाति, कुतस्तत्रावयेन योगः?, अन्नदायिनो दानकाल एव च कर्मनिर्जरणादिफलाभिनिवृत्तः । विस्चिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः। अज्ञानं विसूचिकायाः प्रमाद इति चेद दातुस्तत्र स्वान्नस्य दानकाल एव त्यक्तत्वात, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि-मातुगर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोःखहेतुत्वादवधेन योग इति, न, तदभिमतमेव जैनानां, तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशोत्पद्यते, तद्वयुत्सृष्टशरीरस्य वा व्यपगतासुनो दर्शनेन न तदुःखनिमित्तमस्यापुण्यमापतति साधोः । द्रव्यमात्रवधे चागमानुसारिणो भिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनकान्त इत्यन्याय्यम् । स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेऽप्यवद्येन योगः। कचित् परसुखोत्पादे पुण्यलेशनिर्जरा वा । विहितानुष्ठायिनः साधोः क्षुत्पिपासातस्याधाकमौदिदानेन एषणाविशुद्धेन प्रासुकानपानदानेन वेति। यच्चोक्तमग्निदृष्टान्तसामोद् वध्योऽपि अवद्येन, वधक्रियासम्बन्धाद्धन्तृवत् । यथा ह्यग्निः पूर्व खाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसम्बन्धिनी प्राक् तावद् वध्यमेवावधन योजयति " कर्मस्था च भिदेः क्रिये" ति वचनात् , यथा भिनत्ति कुसूलं देवदत्त इत्येवं हन्ति प्राणिनमिति तदेतदसदित्यनया क्रियया कसमवायिन्या कुमूलविदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगतया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोऽप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोऽपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः । अबुद्धिपूर्वकता च प्रमत्तता । तत्र कः प्रसङ्गो वध्यस्याधर्मेण ? । वधकसमवायिनी च हननक्रिया कर्तृफलदायिन्येव । प्रमत्तस्याध्यवसायो बन्धहेतुः। न च वध्यस्यात्महनने प्रमत्तताध्यवसायः, दृष्टान्तधर्मी चानेकधर्मा, तत्र कश्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः। विकल्पसमाधेयं, जातिरुपन्यस्ता वसबन्धु(१)वधेयेन, स्वाश्रयदाहित्वमविशेषधर्मोऽस्ति । न तु वधक्रियायाः स्वाश्रयेऽवद्ययोग इष्टः, तस्मान्नाग्निदृष्टान्तात् साध्यसिद्धिरिति । एतेनैतदपि प्रत्युक्तम्-परेण
१' गृहीताप्या०' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org