________________
सत्र ८]
• स्वोपज्ञमाष्य टीकालङ्कृतम् सश्चिन्त्य । अथैवं मन्येथास्तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुद्धथा दन्दशूकं कल्पयतः कथं न हिंसा ?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यान्मिथ्यादर्शनमेतत् तदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति । अथ संशयहेतुत्वान्मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावा स्यात् । संसारमोचकगेलकतेकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमित्येवं वा संचेतयतां नावचं स्यात् , अन्याभिसन्धित्वात् । अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति, सत्यमेव तत् , किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मो भवतीति । संविद्रते च स्फुटमेवं सौगताः-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा मुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगतिकारणमानन्तर्यकमबुद्धेरबुद्धित्वादेव नस्यात, इष्यते चानन्तर्यक, अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्धतश्चासंचे. तयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात् । यतस्तेऽ'विदंस्माहतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोऽयमिति संज्ञानमात्रेण सं(सां?)ख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण सञ्चेतयतः कल्पाकारमपि शुद्धनामानं घ्नत आनन्तर्यकं स्यात् । तथा मातापित्रद्वधस्तूपभेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽनमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपातायहेतुतया ग्राह्यौ । अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथाऽऽत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायाहते शस्त्रोल्लम्बनानिजलप्रवेशादिभिः । तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किञ्चित् परग्रहणमपीति । एवं सति कचित् कचिद् भावत एव प्राणातिपाताधवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावद्यं हिंसा मारकस्येवेति । प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणस्ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावद्यम् अप्रमत्तस्य तु आगमानुसारिणो न भवति । यत आगमः
" हत्थपायपलिच्छिन्नं, कण्णनासविकप्पितं ।।
अवि वाससतं णारि, दूरतो परिवज्जए ॥१॥-अनु० चिंत्तभित्तिं ण णिज्झाए, णारी वा सुअलंकिदं । भक्खरंपिव दळूणं, दिहिं पडिसमाहरे॥२॥"-अनु०
-दशवैकालिके (अ०८, उ०२, सू० ५५, ५४) १ 'गलाकर्तयाज्ञिक०' इति ग-पाठः। २ 'गमन' इति ङ-पाठः । ३ 'विदन्स्यार्हता' इति ख-पाठः । ४ छाया
प्रतिच्छिन्नहस्तपादां विकल्पितकर्णनासिकाम् । अपि वर्षशतिकां नारी दूरतः परिवर्जयेत् ॥१॥ चित्रभित्तिं न निरीक्षेत नारी वा स्वलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org