________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ७
आयुष्माथ विज्ञानं, यदा कार्य ( याद् १ ) व्रजन्त्यमी । अपविद्धस्तदा शेते, यथा काष्ठमचेतनम् ॥ १ ॥ " - अनु० इति । आर्हताः पुनरबुद्धिपूर्वकमसञ्चिन्त्यापि कृतं प्राणातिपातं प्रतिजानते । अबुद्धिपूर्वादपि प्राणवधात् कर्तुरधर्मो यथाऽनिस्पर्शाद् दाह इति । तेषां चैवमभ्युपयतां परदारदर्शन स्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः साधुशिरोलुश्चने, कष्टतपोदेशने, च शास्तुः क्रुद्धस्येवाधर्मप्रसङ्गः । विवृचिकामरणे वाऽनदायिनः प्राणवधः, मातृगर्भस्थयोश्चान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादग्निना स्वाश्रयदाहवदधर्मप्रसङ्गः । परेण च कारयतो नाधर्मप्रसङ्गः । न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते । अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः । न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवानाबुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति ॥ अत्रोच्यते जैनै: - प्राणाहिंसालक्षणे तिपाताद्यवद्येन प्रमत्त एव युज्यते । प्रमत्तश्च नियमेन रागद्वेषबौद्ध मतखण्डनम् मोहवृत्तिः । प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् । कषायग्रहणेन मोहनीयकर्माशो मिथ्यादर्शनमपि संशयिताभिग्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियासवप्रमादेष्वप्यन्वयिनौ । निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभावः, तदाकुलितचित्तो मूढ इत्युच्यते । रागद्वेषमोहाचात्मनः परिणाम विशेषाः प्राणातिपाताद्यवद्य हेतवः सर्वैर्मोक्षवादिभिरविगानेनाभ्युपेयन्ते । सिद्धान्त विहितविधिना च परित्यागाकारणं शरीरादेर्ममत्वी कृतस्याविरतिः, अनिवृत्तिरात्मनः परिणतिविशेषः । साऽपि प्राणातिपातावद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु । अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जी वास्नायुशरवाजकी च कशलाकाद्याकारेण परिणतानि प्राणिनां परितापमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुवद्येन योगमापादयन्ति । प्रतीतं चैतल्लोके - यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणमपरित्यजतः । न चानयैव युक्त्याऽवद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रची वरदण्डक प्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवमवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापास्त्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमने कभेदमजहती प्रमादमेवास्कन्दति ॥
६६
44
प्रमत्तयोगाच्च प्राणातिपाताद्यवद्यमिति व्यवस्थिते यदुच्यते परेण - असश्चिन्त्य वा भ्रान्त्या वा मरणं नावद्यहेतुकमिति, अत्र प्रतिविधीयते - असश्चिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्याटेरभावः सुगत शिष्याणाम् । यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्व कारी मिथ्येति
१ ' दमेः स्वा०' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org